SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 आयुर्वेदसूत्रे ननु भोगायतनं शरीरमिति प्रसिद्धम् । तथा सति विषय. मात्रफलोद्देश्यकार्यकारणविषयनाश्यैकनाश्यं इति तनिषेधुमशक्यम् | यावद्विषयानुभवकाल एव भोगकाल इत्याशयं मनसि निधायाह-भोगेति । भोगायतनं शरीरम् ॥ ७९ ॥ सर्वार्थविषयकभोग्ययोग्यानां द्रव्याणां आयतनम् । सुखदुःखानुभवो भोग इति दुःखस्यापि भोगयोग्यविषयकामनात्मकद्रव्योपलम्भकत्वात् । तस्माद्भोगायतनं शरीरमिति । शरीरत्वस्य भोगायतनत्वावच्छेदकत्वादिति वक्तुं शक्यत्वात् । ननु सुखविषयकप्रवृत्तिकमनोविषयकसुखानुभवज्ञानविषयकप्रवृत्तिमुद्दिश्य प्रवृत्तेस्तद्विषयानुभवजानन्दः मत्कामनाविषयकः दुःस्त्रविषयकशानस्य मत्कामनाविषयकत्वाभावात् । तदर्थमेव भोगोपकार्यजनकसंपादनसामग्रथैव फलितार्थत्वात् । __ननु सुखस्यापि दुःखानुषङ्गत्वात् सुखमपि दुःखमेव । विषयदुःखानुभवस्तु दुःखजनककर्मव्यतिरिक्तकर्मणा साध्यः । तस्मादुक्तरीत्या आनन्दहेतुकं बाह्येन्द्रियविषयोपलब्धिशानानुभवकार्य न भवेदित्यस्वरसादाह-तदिति । 'तत्परमपुरुषख्यातेर्गुणवैतृष्ण्यम् ॥२०॥ तदेव परमपुरुषार्थः, यन्नित्य द्रव्यजन्यज्ञानविषयकज्ञान आनन्दहेतुकं भवति, सा ख्यातिः सच्चिदानन्दात्मिका । आनन्दविषयकशानं यस्यास्ति स एव जीवन्मुक्त इत्यभिधीयते । स सर्वदाऽऽनन्दानुभववान् भवति । मत्प्रवृत्तिस्तु दु खव्यतिरिक्ता, कामनाप्रयुक्तत्वात्, सुखात्मिका कामना परमपुरुषार्थिका । गु 1 तत्परं पुरुष. योग I. 16. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy