SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रश्नः 127 प्राणादिपञ्चकानां निरोधनं यत्र दृश्यते तत्र रोगोत्पत्तिभवति । तत्पवननिरोधनेन आशया दुष्टा भवन्ति ! धातवोऽपि दुष्टा भवन्ति । तज्जन्यकाचकामिलादिवशात् संशयाविभ्रमौ भवत इत्यर्थः। ननु सर्वत्रापि संशयभ्रमजनकसामग्रयां प्रामाण्यज्ञानोच्छेदस्स्यात् इत्यस्वरसादाह -आसन्नेति । आसन्नविषयकज्ञानहेतुकान्तरात्माऽन्तःकरणयोगाभ्यासवशात् .पवननिरोधनादरोगी स चिरायुर्भवति ॥ ६३ ॥ ननु घटेन्द्रियसन्निकर्षानन्तरं तज्ज्ञानग्राहकसामग्रयां सत्यां भ्रमज्ञानानुभवो भवेत् । तन्निष्ठप्रामाण्यमपि गृह्यतां नाम, इतरेन्द्रियविषयेषु तज्ज्ञानविषयकप्रामाण्यं कथं गृह्यते ? पञ्चेन्द्रियविषयज्ञानेषु विरागो नाम विशेषेण रागो विराग इत्यर्थः । तस्मात्पञ्चेन्द्रियविषयज्ञानेषु विशेषेण रागो भवतीत्यर्थः। इन्द्रियार्थसन्निकर्षानन्तरं आत्ममनस्संयोगसकलसामग्रयां सत्यां यावद्विषयकज्ञानमुत्पद्यते, तद्धेतुकं प्रामाण्यं अप्रामाण्यग्राहकसामग्रीव्यतिरिक्तसामग्रीजन्यत्वात्, मदुत्पन्नघटज्ञानविषयकप्रामाण्यवत् । आत्मा जीवः । अन्तःकरण चित्तम् । तस्य जीवात्मना योगः। तद्वशात् तत्कारणवशात् तविषयकज्ञानगोचरज्ञाननिष्ठप्रामाण्यप्रतिबन्धकं भ्रमजनकसामग्री पवननिरोधन अरोगकारणं, अप्रामाण्याभावसामग्रीजन्यत्वात् इत्यर्थः । ननु विषयपञ्चकेषु विरागो नाम विशेषेण रागो विरागः । शास्त्रस्य विषयानुभवमात्रफलं लभ्यते । तेन मोक्षविरोधो भवति । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy