SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 आयुर्वेदसूत्रे .. मधुररसवव्यादनं यस्यास्ति तत्परिमाणवशात् सात्विकगुणोदयो भवति । तत्सात्विक गुणमहिना सर्वपदार्थोपस्थिति मनसा सङ्गहीतुं शक्यत एवेत्यर्थः । तस्मात्सोऽयमिति व्यपदेशो भवतीति प्रतीयते । ननु शुद्धरसपरिणामेन सात्विकगुणोदयात् इन्द्रियार्थसंयोगे सति तद्वति सत्प्रकारकतया तनिष्टप्रामाण्यं ग्रहीतुं शक्यते । विरसान्नादनेन रोगी भवन् अतद्वति तत्प्रामाण्यं गृह्णाति, तत्र दोषसामग्रया बलवत्त्वात् इति रसविरसद्रव्यादनं प्रामाण्याप्रमाण्यग्राहकसामग्री इत्युक्ते इदानी योगाभ्यासयशात्प्रामाण्यं ग्रहीतुं शक्यत एवेत्यस्वरसादाह-इतरेति । 'इतरेन्द्रिययोगविरामोऽन्तर्नियमितोऽभ्यासः । स्वस्य इन्द्रियार्थसन्निकर्षे सात तज्ज्ञानविषयकज्ञाननिष्ठाप्रा. माण्यज्ञानप्रतिवन्धकाः इतरपदार्थारोपणसामग्रीसंपादनविषया ः इतरशब्देन प्रतिपादिताः । स्वेन्द्रियविषयज्ञानग्राहकसामग्रयां सत्यां तद्विषयकज्ञानं तद्विषयकज्ञानाभावश्च । एवमितरेन्द्रिययोगविरामः । तद्विरामः अन्तरिन्द्रियेण मनसा अन्तरात्मनि अभ्यासवशात् नियमितः, तस्य प्रत्ययेन नियमेन पुरोवर्तिनि प्रामाण्यं गृह्यत एवेत्यर्थः॥ इंदत्वेन ज्ञातं वस्तु इतरभिन्नं भासते । ममोत्पन्नं ज्ञानं संशयभ्रमान्यविषयकं समर्थप्रवृत्तिजनकत्वात् , इत्यनुमानविधया प्रामाण्ये गृहीते विरसद्रव्यादनस्य अन्तस्स्थितदोषजन्यरोगस्य बलवत्त्वात् पुरोवर्तिनि संशयनिवृत्तिः कथं स्यादित्यस्वरसादाहविषयेति। योग, . 13. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy