SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतयिप्रश्न 115 ननु सर्वेषां सर्वपदार्थादनस्य प्रस्तुतत्वात् सर्वद्रव्यादनं रोगहेतुकं भवति । यावद्रोगाणां यावद्द्व्याणां कार्यकारणभावे ज्ञाते सति इदं व्याधिहेतुकं द्रव्यं इदं व्याधिनिवर्तकं द्रव्यं इति तयोाप्तिग्रहे सति तथा वक्तुं शक्यते । सर्वत्रापि तथाप्यननुभवेन तयोाप्तेरभावादित्यस्वरसादाह-मातुरिति । मातुराहाररसाहारजनितावयवस्थितरसाःप्रवतकाः ॥ ३५ ॥ ___ तत्र शिशूनां स्तन्यपानादनेन यावद्धातुषु व्याध्यकुराविभर्भावकार्याभावकारणाजातरोगाणां तन्निवर्तकीभूताः शाषकपोषकादयो मातुः रसाहारपरिणामेन सर्वरोगप्रागभावपरिपालनम् । स्तन्यपानेन अरोगास्सन्तः “शतायुः पुरुषरशतेन्द्रियः” इति रोगकार्यप्रतिबन्धकस्य विद्यमानत्वात् निवर्तकनिवर्त्यानुमितौ व्याप्तिर्गृहीतुं शक्यत इत्यर्थः । ___ ननु मातुराहाररसाहारजन्यावयवस्थितरसा वा आमयनिवर्तका इति प्रतिपाद्यन्ते। विरसादनेन मातुर्विकार जाते सति. तत्र पयस्स्थितरसाः अनिवर्तका भवन्ति प्रवृत्त्यादिहिता इत्यस्वरसादाह-अविकारमिति । अविकारं निरीक्ष्यैनां मातृजं पाययेत् ॥३६॥ . मातुस्स्तन्यपानं शिशोरामनिवर्तकं न प्रवर्तकं यदा भवति तदा एनां मातरं रोगनिवर्तकद्रव्येभ्यः अविकारो यथा भवति तथा कुर्वन् तजन्याशशून् मातृजं स्तन्यं पानयोग्यं पाययेदिस्यर्थः । शिशोः पोषकशोषकद्रव्यमपि प्रवर्तकं भवति । केवलं स्तन्यपानमात्रं न प्रवर्तकमित्यत आह योग्यति । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy