SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रश्न: 111 वात् । यदा यस्य भ्रमो भवति तस्य राजसतामसगुणप्रतिपादकसामग्रया भिन्नत्वादित्यस्वरसादाह रज इति । रजस्तमोगुणहेतुकद्रव्यपरिणामकात् 'पित्ताद्विभ्रमो भवति ॥ २४ ॥ राजसगुणजन काम्लरसविरसाव्यादनं तद्गुणप्रधानजनक महेनुकम् । ता प्रसगुणजनकलवणकटुरसविरसबद्दव्यादनं तद्गुणप्रधानजनकभ्रमहेतुकम् । तस्माद्भमस्तु रसविरसजन्यः । संशयस्तु न तथाभूत इत्यर्थः। ननु यत्संशयव्यतिरेकनिश्चयो यत्प्रवृत्तिप्रतिबन्धको तन्निश्चयस्तद्धेतुरनुमितौ व्याप्तिरिवेति न्यायशास्त्रानुसारेण अनिमिषहष्टिदोष वंशादेव भ्रमज्ञानं सम्भवतीत्यत आह तदिति । तद्विषये चाक्षुषाण्यनुभूतार्थेषु ॥ २५ ॥ अन्येषां प्रमात्वेनानुभूतार्थे स एव विषयो यस्य तस्मिन् तद्विषये भ्रमी यस्य भवतीते स भ्रमो निवर्तकेन निवर्त्यः । ननु इन्द्रियार्थसन्निकर्षानन्तरं अयं घट इति ज्ञानानुभूतार्थे जाते सति ममोत्पन्नं ज्ञानमप्रमाणामेति यो मानसिकभ्रमो जायते तद्यावद्सवव्यादनजन्यरोगग्रस्तेन्द्रियज्ञानगोचरत्वाभावादित्यस्वरसादाह-यावदिति। यावद्गर्भाशयस्थं पिण्डं तावद्दव्यपरिपालनम्।। यावद्गर्भाशयस्थं मन इत्यर्थः । अस्मिन्मनास चक्षुरिन्द्रियज्ञानगोचरबटविषयकमनसि अन्योत्पन्नज्ञानं अतद्विषयकं तदर्थ प्रवृत्तौ न समर्थ प्रवृत्तिजनकत्वाभावात् भ्रमविषयकप्रमावत् । 1 पत्ताड्रमो भवति-A. B. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy