SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir तदूर्ध्वे ऋतौ शोषकं तदनन्तरमपि शोषकरसाः गर्भाभिवर्धका यावत्कालोपयोग्याः ॥ ६६॥ 84 - यथायथोपयोगयोग्यकरणसवाणि अनिन्दितानि आरो ग्यकार्यहेतुभूतानि आगामिरोगा भावकार्यकारणानि यावच्छक्तिदोषकारकाणि विधिवद्विविध्य ज्ञाप्यते प्रथमेति । प्रथमद्वित्रिमासेषु मधुररसाः पवनहरा निवर्तकाः ॥ ६७ ॥ - अम्ललवणरसोपलम्भकद्रव्याभ्यां विशिष्टं स्वादुरसवद्दव्यं अन्तर्वत्नया: प्रथमद्वित्रिमासेषु प्रशस्तं भवति । एतदन्योन्यसंसगंजातरसवद्रव्यं विरुद्धरसजात पचनप्रकोप रोगाङ्कुरहेतुकद्रव्याद्नं पत्र नहरं सकलशरीरोपयोग्यं सकलजीवमात्रसाधारणम् । तत्तजातिविहितपदार्थास्सेव्या इत्यर्थः । तावत्कालमात्रं तावद्रसादनेन निवर्तकेन निवर्त्याः निवर्तयन्तीत्युक्तम् । तदितरकालेsपि विरुद्धरसादनकार्यस्य सम्भावितत्वात् तत्रापि गर्भाभिवर्धकद्रव्यादनस्यावश्यकत्वात् यावत्कालोपयोग्यं यथायथं विधेयकार्यहेतुभूतान्यनिन्दितानि आगामिरोगाभावकार्य कारकाणि तावव्याणि विविच्य प्रकाश्यन्ते चतुरिति । चतुःपञ्चषट्सु मासेषु अम्लरसा: पित्तहरा निवर्तकाः ॥ ६८ ॥ स्वादुलवणरसोपलम्भकद्रव्याभावविशिष्टाम्लरसवद्द्रव्यं ग भिण्याः चतुःपञ्चषट्सु मासेषु पाययितव्यम् । एतदन्योन्याभाचप्रतियोग्य भावद्रव्यं अम्लरसवद्दव्यं विबद्धरसाहारजन्यपित्त For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy