SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्न: 73 तिपूर्णसिराणामवेध्यत्वशापकं यादृशानां स्वरूपज्ञाने सति वक्तुं शक्यते तत्प्रयोजनमपि तथा । तस्मान्मर्माशयमज्ञात्वा तनिषे. झुमशक्यमित्यस्वरसादाह- ता इति । - तास्सिरा मर्माशयगा रिक्ताः ॥४७॥ रन्ध्रसञ्चारे पवनस्य योगाधारकत्वात् सरन्ध्रकायसिरावच्छेदनेन दोषप्रकोपो भवति । ता न वेध्याः। या सिरा अतिरिताभ्यन्तरधरदोषसञ्चारार्थ अवकाशाभावद्रव्यत्वात् सरन्ध्रा सती अन्तरिन्द्रियं भूत्वा वर्तते सा सिरा न वेध्या मर्मस्थानतद्गुणहेतुभूतत्वात् । तत्प्रयोजनं यावद्वर्णमात्रोच्चारणं तदन्वयाधीनम् । तास्सिरा न वेध्याः । अतिपूर्णास्सर्वकालेषु पवनपूरितरन्ध्रेषु दोषसंचारहेतुभूताः श्रोत्राकाशस्य स्वभेदप्राप्योपकारकाः ताश्च ममाशयगा इत्यर्थः । ननु अष्टनवतिसिराणां मध्ये यत्र यत्र स्थाने यत्सिराश्रित वर्णदोषः प्रदृश्यते, किं च विरसादनाजातग्रहणीकलादौर्बल्येन तत्रस्थितवर्णदोषः गमनागमनमार्गनिरोधात्पवनादिषु विकारश्च प्रदृश्यते, तत्र तत्तद्वर्णोत्पादकासिराश्रयस्थलेषु तत्तद्धेतुभूतरसविरसजातरोगाः प्रामुवन्ति । शिरोऽस्थिविकारेषु सत्सु शिरोरोगा इति व्यवह्रियन्ते । सिराविकारेषु नेत्रदेशेषु सत्सु, तत्रायं नेत्ररोगवानिति व्यवहियते । कर्णदेशस्थितसिराविकारेषु सत्तु कर्णरोगवानिति व्यपहियते । तत्तत्सिराधिष्ठानस्थि. तदोषादयः विरसादनजातग्रहणीकलादौर्बल्ये तत्तदधिष्ठानस्थितसिरामार्गगमनाभावजातरोगाः गमनागमनक्षोभवशात् तत्तत्स्थानस्थितसिराविकारान् प्रामवन्ति । तत्तद्विकारान् तावत्सिरा एव बोधयन्ति । तत्तत्प्रदेशाधिष्ठितत्यात् तत्तद्देशीपाधिना शिराAYURVEDA. 10 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy