SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वगाभवाद। विकल्पानुपपत्तः । सङ्ग्राहकत्वप्रतिक्षेपकत्वविकल्पानुपपत्तेः । विशेषस्येति। बीजगतविशेषम्य बीजकार्याङ्करस्य विशेष प्रति प्रयोजकत्वं न बौजमामान्यस्याङ्करमामान्यप्रयोजकतायाः प्रतिक्षेपकत्वं यत इत्यर्थः ।। तथाहि उत्पत्तेरारभ्य मुद्रप्रहारपर्यन्तं घटस्तावत् जात्यन्तरानाक्रान्त एवानुभूयमानः क्रमवत्सहकारिवैचिच्यात् कार्यकोटौः (१) सरूपा विरूपाः करोति तत्र एतावतैव सर्वस्मिन् समञ्जसे अनुपलभ्यमानजातिकोटिकल्पना २) केन प्रमाणेन केन वोपयोगेन येन कल्पनागौरवप्रसङ्गदोषो न स्यात् (२) । यो यदर्थ कल्प्यते तस्यान्यथासिद्धिरेव तस्याभाव इति भवानेवाह इति॥ शङ्क० टी० । तत्राद्यं विवृणोति । उत्पत्तेरारभ्येति । जात्यतरानाक्रान्त इति । यदि तदाक्रान्तः स्यात् तदा तथोपलभ्येत न चोपलभ्यते तस्मान्न जात्यन्त। कान्त इत्यर्थः । तर्हि प्रथममेव किन्नाकार्षीदित्यत आह । क्रमवदिति। कार्यकोटौरिति । अन्यथा तत्तत्कार्य प्रति कुवंद्र पत्वरूपजातिकोटिकल्पनर स्यादिति भावः । श्रत एवाह । सरूपा विरूपा इति । द्वितीयं हेतुं विवृणोति । यो यदर्थमिति । अन्ये तु भवानेवाहेतिपर्यन्तं प्रमाणाभावादित्यस्यैव विवरणप्रपञ्च इत्याहुः ॥ (१) कर्मकोटीः-पा० २ पु०। (२) कल्पनं -पा० १ ५० । (३) न सियेत--पा२ पु० ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy