SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ४७ बहुतरपरतन्त्रप्रान्तरध्वान्तभौतस्तिमितपथिकरक्षासार्थवाहेन यत्नात् । तदिदमुदयनेन न्यायलोकागमानां व्यतिहतिमवधूय व्यञ्जितं वम मुक्तः ॥ १॥ नास्य श्लाघामकलितगुणः पोषयन प्रीतये नः कोऽन्धैश्चित्रस्तुतिशतविधौ शिल्पिनः स्यात् प्रकर्षः। निन्दामेव प्रथयतु जनः किन्तु दोषानिरूप्य प्रेक्षांस्तथ्यमवलितकथनं प्रौणयेदेव भूयः॥२॥ इत्याचार्योदयनकृत आत्मतत्त्वविवेकः शङ्क० टौ। बहुतरेति। बहुतराणि परतन्त्राणि वेदान्तादौनि तान्येव प्रान्तराणि दूरशून्याध्वानः, तत्राज्ञानमेव ध्वान्तं मोहस्तेन भौता अत एव स्तिमिताः संज्ञामप्राप्ता निष्किया ये पथिका मुमुक्षवस्तेषां रक्षार्थ सार्थवाहः वर्त्मदर्शक इति यावत् न्यायश्च लोकश्चागमश्च तेषां व्यतिहतिर्विरोधस्तमवधूय निरस्य । नास्येति । अकलितगुणो मूर्खः अस्य ग्रन्थस्य श्लाघामादरं पोषयन्नपि कुर्वन्नपि नोऽस्माकं प्रौतये सुखाय न भवति । अत्र दृष्टान्तमाह कोऽन्धैरिति। विजस्तु जनः परं निन्दामेव प्रथयतु ख्यापयतु किन्तु दोषान्निरूप्य, तथा च दोषनिरूपको विज्ञोऽत्र दोषाभावानिन्दा न करिष्यत्येवेति भावः । ननु विज्ञनिरूपणाद्दोष एव वास्तवोऽस्तीत्यत आह प्रेशानिति । प्रष्टा ईक्षा येषां ते प्रेक्षाः तान् वास्तवदोषकथनं प्रौणयेदेव सुखयेदेवेत्यर्थः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy