SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। न व्यावय॑ते। यदि कश्चिमादिना वेदमन्यथाकारमधीयौत तदा तमन्येऽध्यापका निवारयेयु वमधीयौथा नेदृशो वेदः परन्त्वेवमाकार इति, अतो न सकलाध्यापकसम्प्रदायसम्प्रतिपन्नवेदे कल्पितत्वशङ्कावकाशः, एकमात्रपुरुषपूर्वकं तु कल्पितत्वशङ्कानिदानमिति तादृशसम्प्रदायाविच्छेदेऽपि प्रक्षेपाऽऽशङ्कायां क्वचिदपि प्रसिद्धप्रणेटप्रणीतत्वनिर्णयो न स्यात् तस्याः सर्वत्र भागे सुलभत्वात् । बहुभ्य इति बहनामिति पर्यवसितोऽर्थ इति वदन्ति । तदेतन्महाजनपरिग्रहत्रितयमन्यथाऽनुपपद्यमानं वेदानां सर्वज्ञपूर्वकत्वं साधयतौत्याह । सोऽयमिति । असर्वज्ञपूर्वकत्वे सर्वज्ञापूर्वकत्वे । यथा हि पूर्वविरुद्धापूर्वव्याकरणादिवैद्यकादिषु विगानादपरिग्रहः, तथा तथा विधे धर्मशास्त्रेऽपि । व्यामोहागवन्नपि कस्यचिदेव न तु सर्वेषाम्। अथ पूर्वाविरुद्धं चेत्तथापि पूर्वस्य पूर्ववदपरिग्रहे केनचित् परिग्रहे वा कथं तन्मूलस्यान्यस्य सर्वैः परिग्रहः । न च नासौदेव पूर्व धर्मशास्त्रं मानान्तरस्याच वस्तुनि कुण्ठतयाऽनुष्ठानाभावप्रसङ्गात्। तथा च धर्माभावे तत्कार्यस्य सुखस्याप्यभावे रागानुत्पत्तौ लोकसमीहोच्छेदे लोकोच्छेदप्रसङ्गः। शङ्क० टी० । अत्र तर्कमाह । यथा हौति । विवादाध्यासितं धर्मशास्त्रं यदि सर्वज्ञपूर्वकं न भवेत् उक्रमहाजनपरिग्रहविषयो न स्यात्, आधुनिकव्याकरणवैद्यकादिवदित्यर्थः । व्यामोह For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy