SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६० यात्मतत्त्वविवेक सटौके __ स्यादेतत्, व्याकरणादौनि तावत् सर्वैरभ्युपगतार्थानि, वेदा अपि तैः पालनौया भवन्तु । त एवेति तु कुतः, संसारमोचकागमोऽपि तत्यालनौयः किन्न स्यादिति चेत् । न। तत्कर्तृभिस्तथानभ्युपगमात्, अव्युत्पादनात, असाधारणलिङ्गाभावात्, विरुवलिङ्गसद्भावाच्च । न हि वेदशब्दार्थाविव सुगताद्यागमासाधारणशब्दार्थावनुरुध्य तेषां प्रत्तिः यत एवमुन्नौयेत, प्रत्युत विरोध एव, तैस्तदप्रामाण्यव्युत्यादनात्। तस्मात् सर्वाभ्यपेतव्यवहारव्याकरणादिपालनीयत्वमपि वेदानामेव नान्येषाम। सर्वाभ्यपेतप्रामाण्यैरायुर्वेदादिभिः स्वीकृतश्चैषामर्थः, प्रतिपदं तदीयशान्तिकपौष्टिकप्रायश्चित्ततपोजपदानहोमाधुपदेशात् । न चैष भागस्तवाप्रमाणमेव । तुल्ययोगक्षेमत्वात् । एतदेवासिङ्घ, प्रक्षेपस्यापि संभवादिति चेत् । न। अध्येत्रध्यापयित-संप्रदायाविच्छेदात् । ___ "अन्यथाकरणे चास्य बहुभ्यः स्यानिवारणम्” । इति न्यायात्। __तस्मादेवंरूपोऽपि महाजनपरिग्रहो वेदानामिति सोऽयमौदृशो महाजनपरिग्रहोऽसर्वज्ञपूर्वकत्वेऽसंभवन् सर्वज्ञपूर्वकत्वेन व्याप्यते । शङ्क. टौ० । संसारमोचकागमोऽपौति । तत्रापि पञ्चस्कन्धमनस्काराऽपोहादिपदमसाधारणं यदस्ति तदपि व्याकरण For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy