SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। रघु० टौ. । ईश्वरस्य शरौरविरहिणो वकृत्वासम्भवान्न तदककत्वेन वेदानां प्रामाण्यं, न वा तस्य व्यवहारप्रवर्तकत्वमित्याशयेन शाङ्कते । अस्वित्यादि । प्राक् गुणकादिजनन । उपेक्षितोऽनभ्युपगतः । पिटत्वाद्देति । निर्दोषोऽभिज्ञः पिता निर्दोषायाविदुषे पुत्राय सति प्रतिबन्धकविरहादौ हिताहितमवश्यमुपदिशतीति व्याप्तेः । वेदानां प्रामाण्यमसहमानः पृच्छति । तथापौति । श्रायुर्वदेति । वेदप्रामाण्यसाधने दृष्टान्तार्थम् । तथाहि न तावदयमायुर्वेदोऽप्रमाणं, संवादस्य प्रायिकत्वात्। विसंवादस्य काकतालीयतया कर्तृकर्मसाधनवैगुण्यहेतुकत्वात् । पुनस्तत्सागुण्ये तत एव फलसिद्धेः । न च निर्मूलस्तथा भवितुमर्हति । अतिप्रसङ्गात् । न चान्वयव्यतिरेकभावोऽस्य मूलं आवापोद्दापेन योगानामनन्ततयाऽर्वाचौनेनाशक्यत्वात् । विषादौ तथाकरणे बहुतरानर्थप्रसङ्गात्। कः प्रेक्षावान् अनाकलितवस्तुतत्त्वः पाटवपोषणच्छेदनक्षारणशिरावेधनलङ्घनादि योग्यायै कारयेत्, कुर्यादा। न चोपदेशस्य उपदेशपारम्पर्यमाचं मूलं, अवश्यमुपदेशस्य कचित् प्रमाणे विश्रान्तेरिति हि व्याप्तेः। न च नित्यागमसम्भवो वाक्यत्वात्। तस्मादतौन्द्रियार्थदर्शिपूर्वकोऽयमिति परिशेषः। तथा चानेन दृष्टान्तेन महाजनपरिगृहीतत्वाद्देदा अपि सर्वज्ञपूर्वका इत्युनौयते। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy