SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीके दिति भावः। प्रथमं सहकारिविरहे कार्याकर्तृत्वं । निर्हेतुकत्वेति । सर्वेषामेव हेत्वभिमतानां व्यभिचारेणहेतुत्वात् । शरीरापाय एव कथमिति चेत् ! दृश्यस्य प्रत्यक्षबाधितत्वात्, अदृश्यस्याऽपि सावयवतया निविडतरपाषाणमध्यवर्तिनि भेकादौ(१) नाभग्नस्य प्रवेशः । न च परमाणुरूपं तच्छरौरम् । अनन्तरालत्वेन निर्मनस्कतया इन्द्रियाश्रयत्वानुपपत्तेः। न च बहित्ति मनोज्ञानजननोपयोगि शरौरवैयर्थ्यप्रसङ्गात्, न च दविष्ठ एव सूर्यादिस्तत्कर्यादिति साम्प्रतम्। कारकानधिष्ठानात्, शरीरस्य तदायतनतया प्रयत्नस्याव्यापकत्वात्। तथापि व्यापकत्वे त्वसमवायिकारणाननुरोधेनाकारणकतया तदेव नित्यत्वम्। न चोद्देशमाचसंबन्धेन क्रियाहेतुत्वमस्मदादिप्रयत्नस्यापि तथाभावप्रसङ्गात् । न च संयुक्तसंयोगादधिठानं, साक्षादधिष्ठानस्य विवक्षितत्वात् । विषापनोदादौ कथमिति चेत् । नर)। तचास्मदादेर्ज्ञानमात्र प्रतियत्नस्याविरोधात् । विषापनोदादौ तु तत्सहकारिणस्तज्जन्यादृष्टसहकारिणो वा अन्यस्यैव तवत्यो यत्नः क्रियाहेतुरिति। सर्गादौ तु नं शरीरगन्धोऽपौति (१) भेकशरीरादाविति १ पु० पा० । (२) तस्य शरीरस्य दूरस्थत्वादितिभावः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy