SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८७४ Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटोके शङ्क० टौ० । सिध्यसिद्धिपराधाते सत्यपि प्रकारान्तरेणाऽपि परिहरति । तत्रेति । श्रदृष्टमुपादायेश्वरवैयर्थ्यापादाने करणमुपादाय कर्मवैयर्थं, कर्मोपादाय करणवैयर्थ्यामित्याद्यपि प्रसज्येतेत्यर्थः । उपजौव्यविरोधमाह । यचेति । श्रदृष्टाधिष्ठाढत्वेन सिद्ध ईश्वरो नादृष्टेनान्यथा सिद्धः कर्तुं शक्य दूत्यर्थः । तदपौति । श्रदृष्टमपौत्यर्थः । जनकेति । पित्रादयः पुत्रादिहितार्थं पुत्रादौ दुःखमुत्पादयन्त्येवेत्यर्थः । दौर्जन्यं कौटिल्यम् । भगौ० टौ० । तत्रेति । ननु कार्यं सहेतुकमिति व्याप्तेः कादाचित्कत्वस्य हेतुतयाऽन्यथा सिद्धत्वात् । न च हेतुत्वेनैव कर्तुरपि प्रयोजकत्वं कार्यं सहेतुकं कादाचित्कत्वादित्य चोपादानादिनैव सिद्धसाधनात् । मैवम् । उपादानादिवत् कर्तव्यतिरेकादपि व्योमादौ कार्यत्वव्यतिरेकात् तदन्वये च घटादौ तत्सत्त्वात्तुल्यन्यायतया कर्तुरपि कारणत्वात् । उपजीव्यविरोधमाह । यच्चेति । यथा दृष्टानुग्राहकत्वेनादृष्टं कल्पितं तद्वददृष्टाधिष्ठात्त्वेमेश्वरोऽपीत्यर्थः । स्वार्थश्च यदि स्वष्टमाचं तदाऽनुमन्यत एव, जगत एव तदिच्छाविषयत्वात्, अथ स्वनिष्ठं सुखादि, तत्राह । स्वार्थाभावात् । जनकेति । कारुणिका: पित्रादयः पुत्रादावधिकतरदुःखहानाय ताडनादिना दुःखमुत्पादयन्तौत्यर्थः । रघु० टौ० । सिद्ध्यसिद्धिव्याघाते सत्येवान्यदप्याह । तत्रेत्यादि । अनुमितेति । श्रनुमानात् कार्यस्य कर्तजन्यत्वे सिद्धयति कर्तुरपि कार्यजनकत्वसिद्धेरुक्रमनुमितेति । यद्यपि विशेषाणा For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy