________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८६७ किं ते विषाणशब्देनान्यदेव किञ्चिदभिप्रेतं रोमादिविषाणजातीयं वा द्रव्यम् !। प्रथमे सिद्धसाधनं, लोकविरोधश्च। लोके तदिपरौतस्यैवार्थस्य विषाणशब्देनाभिधानात्। द्वितीये त्वन्वयव्यतिरेकाभ्यां संस्थानविशेषकार्यत्वात् व्यवहारलक्षणायास्तदभिव्यक्तः कथं तद्रहितेषु परमाण्वादिषु तत्सम्भवः। सम्भवे वा कथं न तत्र घटत्वादिकपि। ओमिति ब्रुवतः कथं न जातिसङ्करप्रसङ्गः, कारणं विना कार्यसम्भवप्रसङ्गो वा, न वान्वयव्यतिरेको कार्यकारणभावे प्रमाणमिति सर्व समाकुलमेवाकुलमतेः। तस्मादतीन्द्रियं नित्यं वा विषाणमेव न भवति यच्च विषाणं तत् प्रत्यक्षबाधितमेव कुतस्तदनुमानावकाशः।
शङ्क० टी० । न्यायेन दुर्बलो न्यायदुर्बलः, न्यायेनास्मत्प्रयुक्रेन दुर्बलस्य सदुत्तरास्फरणेन होनशक्रेरिति वार्थः । सुगममन्यत् । महार्थसिद्धयेति। महार्थ ईश्वरस्तत्मिया तत्र त्वया दूषणानभिधानात् । परिभ्रंशो भङ्गः। निष्पयोजनेति। नहि प्रतिबन्दिर्दूषणफला, नापि साधनफलेत्यर्थः । मा भेषोरिति । प्राणित्वादिना खशिरस्यपि विषाणसिद्धिभयं मा कार्फ रित्यर्थः। अत एवोकमर्थादिति । लोकेति । लोमादौ लोके विषाणपदप्रयोगाभावादित्यर्थः । तदिपरीतस्येति । लोमादिभिन्नस्येत्यर्थः । विषाणत्वं जातिर्घटत्वादिवत् संस्थानविशेषव्यङ्गव, तथा च यत्र संस्थानविशेषो नास्ति तत्र विषाणत्वमपि नास्ति, सम्भवे वा परमाणषु घटत्वपटत्वादिकमपि
For Private and Personal Use Only