SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६० www.kobatirth.org आत्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir अथेति । किमस्मदाद्यकर्तृकं कार्यजातं सर्वथैव भवतामकर्तृकं ? नेत्याह । संहतौ चेति । स्वप्रधानं स्वीये व्यापारे प्रधानं कर्तृ । तथा चाड: स्वव्यापारे च कर्तृत्वं सर्वत्रैवास्तिकारक इति । कथञ्चित् प्रधानक्रियामपेच्य । कर्तृविशेषकार्यविशेषाणामन्वयव्यतिरेकाभ्यां सामान्यत एव तदुत्पत्तिग्रहात् श्रकारणककार्योत्यत्तिप्रसङ्ग एव विपक्षे बाधकः । अन्यथा तन्तुपटादौनामन्वयव्यतिरेकयोर्विशेष एव विश्रामात् सामान्यत उपादानस्य कारणत्वासिया निरुपादानमपि कार्यं जायेतेत्याह । तथापीति । निमित्तवैचित्र्यस्यलेऽप्युपादानगतमेव वैचित्र्यं कल्पनीयं तत्राह । निर्निमित्तं वेति । तथाविधात् विचित्रात् । सामग्ग्रा इति । सामग्रौ च निमित्तघटितेति भावः । तत्र न प्रथमः । वेमादीनां स्वातन्त्र्यप्रसङ्गात् । तेषां वेमादित्वमाचानुबद्धमिति चेत् । न । दण्डादौनां स्वातन्त्र्यप्रसङ्गात् । न चैतत्कार्यविशेषनियतं, गवाभ्याजनादौ दण्डादौनां स्वातन्त्र्यप्रसङ्गात् । न द्वितीयः । तस्य जातिविशेषानियतत्वे घटार्थमपि तेषां कदाचित् स्वातन्त्र्यप्रसङ्गात् । तन्नियतत्वे स एवोच्यताम् । न च घटपटशकटकटाहादिगतं दण्डवेम वासौसन्दंशादिगतं वा सामान्यविशेषमुपलभामहे । त्यसौ यतः शरीरिकर्तृकत्वानुमानमिति चेत् । न । घटत्वादेरेव तथाभावात् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy