SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीके दाह । बौजजातीयस्येति । तथेति । अविलम्बकारित्वे एवकारेपान्तर्भावितोप्यर्थः प्राधान्येन विलम्बरूपतया पृथगुपदर्णितः ॥ अत्र च भवानपि न विप्रतिपद्यत एव प्रमाणसिद्धत्वात् विपर्यये बाधकाच्च । तथाहि यदि सहकारिविरहे ऽकुर्वाणस्तत्समवधाने ऽपि न कुर्यात् तज्जातीयमकरणमेव स्यात(९) समवधानासमवधानयोरुभयोरप्यकरणात् । एवं तत्समवधानविरहे ऽपि यदि कुर्यात् सहकारिणो न कारणं स्युः तानन्तरेणापि करणात् । तथा चानन्यथासिद्धान्वयव्यतिरेकवतामप्यकारणत्वे कार्यस्याकस्मिकत्वप्रसङ्गः(२) तथा च कादाचित्कत्वविइतिरिति ॥ शा० टी० । नन्वेवं न मन्यामह इत्यत आह । अत्र चेति । प्रमाणेति । सहकारिषु मत्सु करणस्यासत्सु चाकरणम्य प्रत्यक्षसिद्धवादित्यर्थः । विपर्यये बाधकं स्फुटयति । तथाहौति । यज्जातीयं सहकारिसमवधानाममवधानयोरकारणं तब्जातीयमकारणमेव शिलाशकलवदिति व्याप्यपष्टमोनाह(२) । यदौति । न च दीपोपरिनयनात् पक्कबौजे व्यभिचारः । तत्रापि महकारिविशेषविरहस्य कल्पनौयत्वात् । यत्कार्य ययतिरेकेण यत् करोति तत्कार्य न तस्य (१) तज्जातीयमकारणं स्यात् - पा. १ पु । (२) कार्यस्याकरणकत्वप्रसङ्गः-पा० २ पु । (३) व्यायवयम्भेनाह-पा० २ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy