SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૭૫ www.kobatirth.org आत्मतत्त्वविवेके सटीक Acharya Shri Kailassagarsuri Gyanmandir परप्रत्ययवत्त्वग्रहणात् । माचात्कारश्च लौकिको ग्राह्यः । योऽहं घटमद्राचं मोऽहं स्पृशामौति प्रतिसन्धानं कर्तभेदेऽनुपपद्यमानं पूर्वापर प्रतौत्योरेककर्तृकत्वं व्यवस्थापयति प्रत्येतव्यादनन्यस्यैव प्रत्येतुरहमास्पदत्वात् नहि भवति चैत्रोऽहं यमद्राक्षं मैचोऽहं तं स्पृशामीति पुनराकरच्छायावाही पन्थाः । पूर्वापर प्रतौतिमतोरभेदप्रतिसन्धानं तयोरभेदमाधकं विरुद्धधर्मसंसर्गविरहिविषयत्वं च विशेषणं ग्रन्थकदेव दास्यतीत्यपि केचित् । या प्रतिसन्धानेन प्रतिमन्धानप्रयोजकं स्मरणमभिहितम् । श्रन्यदृष्टस्यान्येन स्मरणेऽतिप्रसङ्गात्, यदुक्तं "नान्यदृष्टं स्मरत्यन्य इति । न चैवमथवेत्यादिना वच्यमाणाभेद इति वाच्यम् । दृहानुभवस्य स्वाश्रये स्मृतिजनकत्वात् स्थिरात्मसाधनं, तत्र च संस्कारस्य तथात्वात्तदिति भेदात् । " सन्तन्यमानेऽप्यात्मनि एक सन्तानान्तःपातित्वनिबन्धनोऽहमारोपः प्राचौने प्रत्येतरि तदभेदारोपश्चार्वाचीने, तत्र चोदीच्यज्ञानवत्त्वं गृह्यते इत्यसिद्धो हेतुः वासनापरौपाकप्रभवञ्च स्मरणमनुभवितमन्तान नियतमित्याशङ्कते । एषोऽपीति । व्यतिरेकिणा प्रतिमन्धानेनैककर्तृकत्वे साध्ये व्यतिरेके उपादानोपादेयभावस्योपाधेः सम्भवात् मन्दिग्धव्यतिरेकित्वमित्याशङ्केत्याकरे टीकाकृतः । अत्र च एकमन्तानान्तःपातिनां ज्ञानानां सत्यप्युपादानोपादेयभावे प्रायशो न प्रतिसन्धानमिति साध्याव्यापकत्वमग्र एव व्यक्तीकरिष्यत इति हृदयम् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy