SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभणवादः । स्थापि करणप्रयोजकसहकारिसाहित्यविरहेणाकरणोपपत्तेर्मूलशैथिस्यात् । ते बोजादयः ॥ नापि तृतीयः विरोधात्। सहकार्यभावप्रयुक्तकार्याभाववाँश्च सहकारिविरहे कार्यवाँश्चेति व्याहतम् । तस्माद् यद् यदभावे एव यन्न करोति तत् तत्सद्भावे तत् करोत्येव इति तु स्यात् । एतच्च स्थैर्यसिद्धेरेव परं बीजं सर्वस्वमिति ॥ शङ्क० टी० । ननु कुशूलस्थं बीजं यदि सहकारिविरहप्रयुक्तकार्याभाववत् स्थात् कुर्यात् न च करोति तस्मान्न तथेति प्रसङ्गविपर्ययौ स्यातामित्यत आह । नापीति । कुशूलस्थस्य सहकारिवैधुर्यमुभयसिद्धम् तथा च महकारिविधुरं बीजं यदि सहकारिविरहप्रयुक्तकार्याभाववत् स्यात् तदा कुर्यादिति विरुद्धमित्याह । विरोधादिति । तस्मात् यत् सहकारिविरहान्न करोति तदेव महकारिसत्त्वे करोतीत्यायातम् तच्च स्थैर्य सिद्धावेव स्थादित्याह । तस्मादिति ॥ भगौ० टौ । सहकार्यभावप्रयुक्तकार्याभाववत्त्वेन सहकार्यभावकाले कार्यकारित्वापादानं व्याघातानास्तीत्याह । विरोधादिति । नन्वेकत्र करणाकरणे न सम्भवतो विरोधादित्यत आह । यद्यदिति । यत्कारणं यस्य महकारिममवधानस्थाभावे यत्कार्य न अनयति तत् तत्समवधान एव जनयतीत्यौपाधिके करणाकर For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy