________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ন
क्षणभद्रवाद। कारिस्वभावाः परस्परं प्रत्यासन्नाः कार्य कृतवन्तः किं वा यथा त्वत्परिकल्पनं क्षिप्रकारिस्वभावा इत्यत्र कार्यजनन मजागरूकमेवेति ॥
शङ्क० टी० । ननु विलम्बकारित्वे कदापि कार्यजन्म न स्यादिति तदन्यथानुपपत्त्यैवाक्षेपकारित्वसिद्धिरिति शङ्कते । कार्यति । विलम्बकारित्वे ऽपि कार्यजन्मो पपद्यत एवेत्याह । विलम्बेति । ननु विलम्बकारित्वखाभाव्यं चेत् तदा ध्वमपर्यन्तं तत्वाभाव्यानुवृत्तौ कार्यजन्म न स्यादेवेति विनम्वकारित्वमन्यथा समर्थयति । ततखेति । ततश्च यदधीनं कार्यजन्म तत् तदेव गमयेत् न त्वक्षेपकारित्वमित्याह । एवं चेति । न तु जातिभेदे पराभ्युपगते । विलम्बकारित्वे ऽपि कार्यजन्मोपपादयति । ते विति। सामग्रीघटकाः महकारिण इत्यर्थः । तथा चाक्षेपकारित्वे कार्यजन्माप्रयोजकमिति भावः ॥
भगी. टौ। अस्मिन्नर्थ भावानामक्षेपकारित्वे कुटू पत्वे वा। ननु विलम्बकारिखभावादेव कार्यजन्मान्यथासिद्धमित्याह । विलम्बेति। स्वाधारक्षणाव्यवहितोत्तरक्षणाकारित्वं विलम्पकारित्वम् । तथा चाङ्कुरोत्पत्तिक्षणो यदि बिलम्वका रिबीजोत्तरक्षण: स्यादङ्करक्षणो न स्यात् पूर्वक्षणवदित्यर्थः । तस्मादक्षेपकारिखमावस्य पूर्वमपि सत्त्वे तदापि कार्योत्पत्तिः स्यादित्याधुनिकव्यक्तिविशेष
(१) कर्मापजनन-~-पा० ३ पु० ।
For Private and Personal Use Only