SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । ६ प्रामाण्येति । यदि व्यसनितया तत्र प्रामाण्यमनुमीयते तदा तत्प्रामाण्यमनुमानादेव ग्टह्यते न्यायनये प्रामाण्यस्य नित्यानुमेयत्वादित्यर्थः । नन्वनुमानस्य निरस्तसमस्त विभ्रमाशङ्कस्य खत एव प्रामाण्य मिति कथं टौका, कथं वा तवापि तत्र तादृशमेव व्याख्यानमत प्राह । इत एवेति । तत्रापि स्वतः प्रामाण्यमप्रामाण्य शङ्कानास्पदत्वं टौकाकृत्तात्पर्यविषयो ममापि तदभिप्रायकमेव तत्र तथा व्याख्यानमित्यर्थः ॥ भगो० टौ । ननु यदि प्रामाण्य परतो ज्ञायेत तदा प्रामाण्यानुमितेरपि प्रामाण्यनिश्चयाथें तत्प्रामाण्यानुमानपारम्प र्यात् फल मुख्य नवस्था व्याप्तिपक्षलिङ्गज्ञाने स्व विषयनिश्चयार्थं प्रामाण्यानुमानपारम्पर्याच्च कारणमुखौ मा स्यादित्यत आह । अनवस्येति । तत्र व्याप्तिनिश्चये दृष्टान्तद्वारिकामनवस्थां निराकरोति । न तावदिति । व्याप्तिग्रहविषयदृष्टान्तज्ञानस्य पूर्वमेव दृष्टान्तान्तरेण निश्चितं प्रामाण्यमन्यथानुमितिरेव न स्यादेवं तत्र तत्रापौत्य नादितैव तत्र परिहार इत्यर्थः । फलद्वारिका तामपाकरोति । फलेति । फलं प्रामाण्यानुमितिः। अग्टहीतप्रामाण्यैव प्रामाण्यानु मितिः स्वविषयं प्रामाण्यं निश्चाययतीति न तत्प्रामाण्यानुमरणमित्यर्थः । अज्ञातेति । अन्यथा व्यवसायोप्यग्टहौतप्रामाण्य एव स्वविषयं निश्चाययति, किं विषयनिश्चयार्थ प्रामाण्यग्रहेणेति भावः । यथेति । यथा व्यवसायादग्टहीतप्रामाण्यादपि विषयनिश्चय इत्यर्थः । न बमो ज्ञानप्रामाण्या For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy