SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । ६७६ ननु स्वप्रकाशशब्दनाच्यत्वं हेतु: स्यादित्यत आह । शब्देति । मा भूगोशब्दवाच्यत्वेन वाचोऽपि विषाणित्वापत्तिरित्यर्थः । ननु जानस्य प्रकाशत्व प्रत्यक्षमेव मानम्, जानामौति प्रत्यक्षेण स्वस्य विषयौ करणादित्यत पाह। नापौति । किमेत व्यवमायरूपं किम्वेदमिति व्यवसायस्तदुत्तर मिदमहं जानामौत्य नुव्यवसायो मानम इति मन्दिग्धं मत् कथं तत्र मानमित्यर्थः । वस्तुतो न सन्देहः, पर्थनिश्चयेन हि प्रवृत्त्यादिदर्शनाद्यवसायस्यार्थविषयत्वमात्रमनुभूयते न तु स्वविषयत्वमपि, स्वविषयत्वस्य प्रवृत्त्याद्यहेतुत्वात्, गौरवात् । पूर्व स्वव्यवहारे मजातीयान्तरानपेक्षत्वं प्रकाशत्वमुक्तमिदानौं व विषयत्वं तदच्यत इति विरोधश्चेति भावः। प्रत्यक्षेति । उपल्लम्भो यस्य मते स्वात्मन्यप्रत्यक्षः, तस्य मानाभावादर्थ दृष्टिवदर्थज्ञानं न मिोदित्यर्थः । ननु तद्विषयकज्ञाना न्तरात्तसिद्धिः स्यादित्यत आह । परेणेति। तदपि जानान्तरा धौनसिद्धिकमित्यनवस्थानाद्धर्मिग्राहकमानसिद्धमेव स्व प्रकाशत्वमित्यर्थः । न चेति । यदीयं ज्ञान क्रिया मजातीयक्रियानिरूपितकर्म स्यात् एतत्कर्मतानिरूपक क्रियामजातीया न सात्, छिदावदिति तर्कादनुव्यवसायवे बाधकादिङमहं जानामोत्यनुभवस्य व्यवसायत्वं निश्चीयत इति भावः ॥ रघु० टौ. । कथन्ता केन प्रकारेण प्रामाण्यविशिष्टप्रतीतिरिति । निरूप्यते विचार्यते । स्वसम्वेदनस्येति। धर्म्यग्रहे विशिष्टग्रहानुपपत्तेरिति भावः । ज्ञानं स्वप्रकाशं प्रकाशत्वात् For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy