SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir रघु० टौ० । अन्वयव्यतिरेकेति । श्रन्वयव्यतिरेकग्रहेत्यर्थः । बौजलमिति बौजमधिकृत्य । एतच्च बीजस्यैवाङ्कुरजनकत्वमितिमतेन बौजे विनष्टे तदवयवेभ्य एवाङ्करोत्पाद इतिमतेन कपालादिव्यावृत्तकलमयवाद्यवयवानुगतजातिविशेषपरं बौजनपदमिति वदन्ति । तदवान्तरेति । बौजत्वव्याप्यं कुर्वद्रूपत्वं बेत्यर्थः । कार्याभावः कार्यकारित्वाभावः । चरमकारणस्याप्युत्तरकाले कार्यकारित्वाभावः सहकारिविरहप्रयुक्त इति भावः । यथाश्रुतं त्वस्माकं निमित्तासमवायिनोः परेषामुपादानस्याप्यसिद्धमिति द्रष्टव्यम् ॥ 7 ४६ न तावदाद्यः कुर्वतोऽपि बौजजातीयस्य प्रत्यक्षसिद्धत्वात् । तवापि तचाविप्रतिपत्तेः ॥ शङ्क ० टी० । अकुर्वतोऽपीति । यदि कुशूलस्यं बीजं स्यात् तदा कुर्यादिति प्रमङ्गो न च करोति तस्मान्न बीजमिति विपर्ययच व्यभिचारबाधाभ्यामनुपपन्न दूत्यर्थः ॥ भगौ० टौ० । बोजजातीयमङ्कराकारित्वादित्यच व्यभिचारमाह । श्रकुर्वतोऽपीति । तथा च विपर्यये व्याप्यभावात् प्रसङ्गे मूलशैथिल्यमिति भावः । तवापीति । अङ्कुरानुपहितस्य बौजवे ऽनुभवसिद्धे तवापि सम्प्रतिपत्तिः । भावले परं तस्य विवाद इत्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy