SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 बाह्यार्थभङ्गवादः । सत्त्वैकार्थसमवायिनो दृश्यते तावदेवमिति चेत्, बाधकत्वमेव तर्हि हेयम् । बाधकैकार्थसमवायिनः सत्त्वमेव किन्न होयत इति चेन्न । बाधकस्यापि त्यागप्रसङ्गात् । उभयमप्यवर्जनीयमेव तर्हि । एवमेतत् । मिथेो विरोधस्तु हेयः । न हि विरुडयोरेकार्थसमवायस्तथाभूतयोर्वा विरोधः शक्य उपपादयितुम्टते स्वसमयात्, न च विचारावसरे स्वसमयावतार इति । यथा यथा च बुद्धिनिवारणाय यत्न - स्तथा तथोञ्चलः प्रकाशः, तन्निवारणमपि बोद्धव्यमेवेति । तदेतदायातं प्रदीपान्तरेण प्रदीपं निर्वाप्य तिमिरापादनांमति । ६३३ अङ्क ० हो 1 दृश्यत इति । श्रापाततो यत्र बाधक नोदेति तदपि सत्त्वेन व्यवहियत इत्यर्थः । यदि सत्त्वं तदा क्रमेणापि स्फुरद्वाधकं बाधकाभावमेवेत्याह । मत्त्वकार्थेति । वैपरीत्यमेव किन्न स्यादित्यत श्राह । arahara | बाधकेति । सर्वसत्त्वत्यागे बाधकमन्तापि न भवेदित्यायाता पूर्णतेत्यर्थः । उभयमपीति । सत्त्वं बाधकवत्त्वं चेत्यर्थः । मिथो विरोध दूति । श्रसमावेशो हेय इत्यर्थः । समय: परिभाषा | नन्वस्मात्परिभाषयैव सत्त्वबाधकवत्त्वयोः समावेशः स्यादित्यत श्राह । न हौति । बुद्धिनिराकरणस्यापि बोद्धव्यतया कथं बुद्धिनिराम इत्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy