________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
६२९
न च कल्पिताश्रयाः कल्पितप्रतिबन्धाश्च प्रसङ्गा भविष्यन्तौति युक्तम् । (स्वे)इच्छाकल्पितेन व्यवहारेण सर्वविधिनिषेध व्यवहारविलापग्रसङ्गात्। लोकव्यवस्थापेक्षणे तु तबिरोधेनोत्तरस्य निषेध(क)स्यात्मलाभाभावादित्यसकृदावेदितत्वात् ।
शाङ्क • टौ. । नवमत्ख्यात्युपनौतपरमाण्वाश्रया एव प्रसङ्गाः मावयवत्वसाधकाः स्युरित्यत आह । न चेति । तथा मति किमपि न मिोदित्यत पाह। इच्छेति । ननु न विधिनिषेधव्यवहार विलोपो यथालोकव्यवहार तयोरिष्यमाणत्वादित्यत आह । लोकेति । एवं सत्यवयविसंयोगादिनिषेध यत्तत्मवें जात्युत्तरमतः स्वव्याघातकत्वात्तस्यात्मलाभ एव नास्तीत्यर्थः ॥
भगौ• टौ. । इच्छेति । तथा च त्वदनिष्टस्य विधिस्त्वदिष्टस्य निषेधः माधयितुं शक्य इत्यर्थः ॥
अन्यथा सर्वमेतदुड्डावपि समानम्। सापि हि षट्वेन युगपद्योगादिभिः सावयवा प्रसज्येत । तस्यामसिद्धास्त इति चेन्न। अनुमानसिद्धत्वात् । तथाहि बुद्धिः षट्वेन युगपद्योगिनौ मूर्त्तिमतौ च, सत्त्वाद्यव
(१) व्यवहारविलोप इति ३ पुस्तके नास्ति ।
For Private and Personal Use Only