SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२२ आत्मतत्त्वविवेके सटीके तर्हि तयोर्विरोधसिद्धिः । श्रालम्बते चेत् तस्यैव तदाकारदयाकारत्वाद विरुद्धमेकस्योभयाकारत्वम्, तदालम्बनतायास्तदाकारत्वानतिरेकादिति । कदापि न स्यादिति । माधनवत्त्वाद्यग्रहाचानुमानादि- वार्त्तेति ॥ तथा चैकच संयोगव्यवस्थापनेनैव षट्वेन युगपद्योगात् दिग्देशभेदाच्छायावृत्तिभ्यामित्यादयो निरस्ताः । शङ्क• टौ० । परमाणौ बौद्धेर्यद्वाधकमुपन्यस्तं तदूषयितुमुपन्यस्यति । संयोगेति । 66 ' षङ्केन युगपद्योगात् परमाणोः षडंशता । दिग्देशभेदतछायावृत्तिभ्यां चापि सांगता ॥ " इति । बौद्धकारिकार्थस्तु एकस्य परमाणोर्दिक् चतुष्टयवर्त्तिनश्चत्वारः परमाणव उपर्यधश्च दौ परमाणू, तदेवं षट्केन युगपत् एककालं योगात् षडवयवाः परमाणोः प्राप्ताः, न हि यदवच्छेदे - नैकपरमाणु संयोगस्तदवच्छेदेनैवापर परमाणु संयोगो मूर्त्तानां समानदेशताविरोधात् । किं च प्राच्यः परमाणुः प्रतीच्यः परमाणुरिति व्यपदेशोस्ति । स च सावयवानामेव दृष्टः । किं च परमाणुना च्छायाऽवश्यं जननौया, किं चावरणं जननौयम् । तदुभयं मावयवानामेव दृष्टमतः परमाण: मावयव इति सिद्धम् । तदेतदनुपपन्नम्, संयोगस्ततद्दिवच्छेदन, न तु परभाववच्छेदेन प्रमाणाभावात् श्रव्याप्यवृत्तितापि तत्तद्दिगवच्छिन्नात्यन्ताभाव सामानाधिकरण्यादेव दिग्देशभेदोप्येतद्दिग्वर्त्तिताधौनः, For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy