SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्वविवेके सटी के अतिप्रभङ्गादिति । सामर्थभेदव्यवहारो यदि यावत् तावत् प्रयोजकविरहे ऽपि स्यात् अभिन्ने ऽपि स्थादित्यर्थः ॥ रघु० टो० । विकल्पभेद इति। उपाधिरित्यादिकमनुषज्यते। भेदप्रसङ्गादिति। तथा च व्याप्तिपक्षधर्मताज्ञानाभ्यां विषयौकृतयोर्भेद व प्रसङ्गादिवातेति भावः ॥ नापि द्वितीयः। सा हि सहकारिसाकल्यं वा प्रातिस्विको वा। न तावदाद्यः पक्षः सिद्धसाधनात् परानभ्युपगमेन हेत्वसिद्धेश्च। यत् सहकारिसमवधानवत् तद्धि करोत्येवेति को नाम नाभ्युपैति) यमुद्दिश्य साध्यते। न चाकरणकाले सहकारिसमवधानवत्त्वमस्माभिरभ्युपेयते यतः प्रसङ्गः प्रवर्तेत ॥ शङ्क० टौ । योग्यतापक्षं दूषयति । नापौति । मा ति । प्रति खं नियता प्रातिखिको। यथा बीजेषु बोजत्वं तन्तुषु तन्तुत्वम्। तत्तत्कारणतावच्छेदिका जातय इत्यर्थः। सिद्धमाधनादिति। संग्रहं विवृणोति। यदिति। परानभ्युपगमेनेति विवृणोति । न चेति। अकुर्वतः कुशूनस्थस्य बीजस्य परेण नैयायिकेन सहकारिसमवधानानभ्युपगमात् तर्कस्य पराभ्युपगममादायैव प्रवृत्तेरित्यर्थः ॥ (१) नाम्यपगच्छति-पा० १ पु० । (२) समवधानवत्तास्माभि-पा. १ पु.। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy