SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५२ यात्मतत्त्वविवेके सटीक मिथोव्याघातच मिथोबाध्यत्वं वा मिथो विरोधित्वमात्रं वा । श्राद्ये प्रसिद्धिः प्रामाणिकस्य पक्षस्या प्रामाणिके नेतरेणाबाधनात् । द्वितीये व्यभिचारः । मत्पक्षविरुद्धपक्षम्य त्वसिद्धान्तत्वादिति ॥ एतेन दृष्टान्ता अपि विमर्जनौयाः। ते हि रज्जसर्पवत् तज्ज्ञानवत् शशविषाणवत् दर्पणमुखवत् स्वप्नप्रत्ययवत् च्छेद्यानुपपत्तौ च्छिदावत् मिथः शोषकनिर्वापकानलसलिलवदित्यादयः । येन च तत्र सर्पस्यासत्त्वं तज्ज्ञानस्य मिथ्यात्वं शशविषाणस्याकारकत्वं दर्पणमुखस्य विचारामहत्वं स्वप्नज्ञानस्य निरालम्बनत्वं छेद्यानुपपत्तौ च्छिदानुपपत्तिश्चावधारितानि तेनैव तत्र रज्जोः सत्त्वं असर्पज्ञानस्य सत्यत्वं शशस्यान्यत्र गवादेविषाण एव कारकत्वं दर्पणस्य विचारमहत्व अस्वप्नज्ञानस्य सालम्बनत्वं च्छेद्यनिष्ठा च्छिदा सिद्धौ ज्ञानं कर्म चोपपादितानि। तदनुपपत्तौ वा साध्यविकलतया सर्व एवैते दृष्टान्ताभासाः। अन्तिमस्तु साधनविकलः। सिद्धान्तानां व्याघातः परस्परविरहरूपत्वलक्षणः जलानलयोस्तु वध्यघातकस्वभावत्वलक्षणः, न च शब्दसाम्येनानुमानमित्येषा दिक् । शङ्क० टौ । तदेवाह। ते हौति। व्यकमन्यत् । शशाम्यान्यत्र लोमादौ । गवादेः स्वविषाण एव कारकत्वादित्यर्थः । शब्दमाम्ये नेति। अन्यथा गोत्वादौनामपि विषाणित्वं स्यादिति भावः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy