________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभावादः।
प्रमङ्गेति । यद्यदा यत्कार्यमङ्करं वा प्रति समर्थं तत् तदा तत् करोति। यथा महकारिमध्यमध्यासौनबीजमकरसमर्थं तत् तदानौं कुशलस्थबौजमुपेयते परैरिति प्रसङ्गः। यद्यदा यत्कार्यमङ्करं वा न करोति तत् तदा न तत्समर्थं यथा यावत्मत्त्वमङ्कुराकारि शिलाशकलमङ्करासमर्थम् न करोति च कुशलस्यबीजं तदानौमङ्करमिति विपर्ययः । तेन कुशूलस्थतादशायां संयोगादेहत्तरबौजस्य वा कालान्तरे चाङ्कुरस्य जननाभ्युपगमे ऽपि न पतिः । यन्नाङ्कुरममथ तन्नाङ्कुरं करोति यथा शिलाशकलमङ्कुराममर्थं च महकार्यसमवहितं बीजमिष्यते परैरिति प्रसङ्गः। यदङ्करं करोति तदङ्करसमथं यथा धरण्या दिभेदः करोति च सहकारिसमवहितं बीजमङ्करमिति विपर्ययश्च सामर्थसाधनाय नोपादेयः अनभ्युपगमेन प्रसङ्गहेतोरमिद्धेः सामर्थ्यस्य महकारियोग्यतायाः स्वरूपयोग्यताया वा अभ्युपगतत्वेन विपर्यये सिद्धसाधनादिति । सामर्थ्य हि करणत्वं तविविधम् । फलोपधानं योग्यता च । फलोपधानं च फलाव्यवहितप्राक्कालसम्बन्धः। तदेव करणं कारित्वं च । योग्यतापि द्वयो सहकारियोग्यता स्वरूपयोग्यता च। चरमापि द्विविधा जनकतावच्छेदकरूपं बीजवादि कुर्वदूपत्वं वा सहकारिविर प्रयुक्तकार्याभाववत्त्वं च। तत्र क्रमेण विकल्प्य दूषयति। सामर्थ्य हौति । नाद्यः पक्षः । एवमग्रे ऽपि। साध्येति । माध्यं व्यापकम् । तथा चापाद्यानुमेयाभ्यामापादकानुमापकयोर विशेषप्रसङ्गादित्यर्थः । असमर्थाकारिव्यावृत्त्योर्भिन्योरेव समर्थाकारिपदाभ्यामभिधानान्न माध्याविशेष इत्याह । व्यावृत्तीति । तदनुपपत्तेावृत्तिभेदानुप
For Private and Personal Use Only