SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir १५ तत्कालीन मामर्थ्यं तत्कालीनफलोपधानलक्षणं कारित्वमापादयतौति यदा कदाचित् करणेन न सिद्धसाधनम् । करणमिति । फलोपधानमित्यर्थः । साध्याविशिष्टत्वादिति (१) । श्रपाद्याविशिष्टत्वात् । माध्यसाधनयोरिवापाद्यापादकयोरपि भेदे सत्यापादनप्रवृत्तेः । श्रममर्थ व्यावृत्तिरापादिकाकारित्वव्यावृत्तिश्चापाद्येति नापाद्याविशेष दूत्याह । व्यावृत्तीति । व्यावृत्त्योरपि भेदः प्रकृते नास्तीत्याह । नेति । कथं नास्तीत्यत श्राह । व्यावर्त्यभेदेनेति । तन्मलं व्यावृत्तिभेदमूलमित्यर्थः ॥ भगौ० टी० । यद्यपि पूर्वक्षणवर्ती भात्रः तदव्यवहितोत्तरक्षणवर्तभावभिनो विरुद्धधर्माध्यस्तत्वादिति सिद्धसाधनम् यतः कुतश्चित् सिद्धावपि मिथः प्रतियोगिकभेदासिद्धेः । न च मिथः प्रतियोगिकभेदाश्रयत्वं माध्यं यतः कुतश्चिदस्यापि मिथोभेदत्वेन प्रकृतव्याप्यसिद्धेः । तथापि सामर्थ्याश्रयो धर्मसामर्थ्याश्रयाद् भिन्न इति साध्यम् तादृशश्ञ्चालक एव तन्मते प्रसिद्ध इत्याह । सामर्थ्येति । न चैवं प्रतिक्षणविरुद्धधर्माध्यामादेव चणिकत्वसिद्धेः सत्त्वं हेतुर्व्यर्थमिति वाच्यम् । सत्त्वरूपोपधानेन माध्यमिद्धौ तदुपयोगादिति भावः । स्वरूप योग्यत्वा योग्यत्वरूप सामर्थ्यासामर्थ्ये एकत्र न वर्तेते कारित्वाकारित्वरूपे साहित्यासाहित्यरूपे च ते प्रत्यक्षेणेव धर्मित्वेनानुभव विरुद्धे इत्याह । विरुद्ध इति । यद्यपि यदि (९) साध्याविशिष्टत्वादित्येव मूलपाठमनुसृत्य व्याख्यातम् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy