SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेक सटीके णाय स्वरूपकथनं वा पक्षतावच्छेदकावच्छेदेन माध्यमिद्धेरुद्देश्याया अनुत्पनत्वेन तस्यादोषत्वात् । शब्दादिरिति । विभिन्नरूपेण पक्षत्वे ऽपि न क्षतिः समूहालम्बनरूपाया अनुमितेः मम्भवात् केषाञ्चिदिमिथ्यानुपादाने ऽपि न तत्र मन्दिग्धानेकान्तिकत्वं ग्टहीतव्याप्तिकस्य हेतोस्तत्र परामर्शऽ नुमितेरेवोदयात् । पक्षत्वेनोपन्यासस्याकिश्चित्करत्वात् । प्रामाणिकत्वार्थक्रियाकारित्वरूपयोः मत्त्वयोरेकतरस्य पक्षतावच्छेदकत्वं हेतुत्वं चान्यतरम्य पक्षतावच्छेदकस्य हेतुत्वे ऽपि न दोषः । व्याप्तिग्रहेण हेतौ माध्यमामानाधिकरण्यावगाहने ऽपि हेतुमान् साध्यवान् इति हेतमत्त्वावच्छेदेन हेतुमविशेष्यकसाध्यवत्त्वबुद्धेरुद्देश्याया अप्रमिड़ेः । प्रतिवन्धो व्याप्तिः ॥ मथु० टी० । तत्र तेषु चतुर्ष बाधकेषु मध्थे । प्रमाणाभावादिति । प्रात्मनः चणिकत्वे प्रमाणाभावादिति । प्रात्मनः चणिकवे मौगतोऽनुमानमाशङ्कते यत् सत् तत् चणिकमित्यादिना । अत्र नैयायिकाभिमतं सत्तामामान्यमेव मत्त्वं प्रतियोगिध्वंसयोः सामान्यकार्यकारणभावानुरोधेन सत्तामामान्यस्य परैरभ्युपगमात् । तस्य ध्वंमाद्यवृत्तित्वेन सयवहारानियामकत्वे ऽपि चणिकत्वसाधकहेतुत्वे बाधकाभावात् । दौधितिकृतस्तु मत्त्वमर्थक्रियाकारित्वं कार्यजनकत्वमिति यावत् । प्रामाणिकत्वं वा सत्त्वं परैनित्यवस्तुनोऽनभ्युपगमेन व्यभिचारविरहात् । न च प्रागभावध्वंसयोर्व्यभिचारः तयोरनाद्यनन्तत्वेन क्षणिकत्वविरहादिति वाच्यम् । तयोरपि तन्त्रये चणिकत्वात् ध्वंसप्रागभावयोरतिरिक्त For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy