SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । 52 Acharya Shri Kailassagarsuri Gyanmandir भगौ० टौ० । तथा च पिण्डमधिकृत्य मामान्यस्योपसर्पणाद्यभावः तदुपलचितं देशमधिकृत्य तस्यैव सम्बन्धासम्बन्धे वैयधिकरण्ष्यमित्याह । तथा मामान्यस्येति शेषः । ननु पिण्डानुत्पत्तिदशायां तत्रावर्त्तमानं तस्मिन्नुत्पन्ने कथं तद्वर्त्ततेत्याह । अथेति । तस्य मामान्यस्य । तदमत्त्वात् पिण्डासत्त्वादित्यर्थः । नात्र विरोधो न हि पिण्डोत्पत्तेः पूर्व तत्र तस्यासत्त्वं स्वरूपसत्त्वं निवर्त्तते, न हि तदपि तस्य मम्बन्धापेचं, मम्बन्धिनः पिण्डस्याभावात् सम्बन्धः परं न स्यादित्याह । स्वरूपेति । जनु पिण्डानुत्पत्तिकालेपि गोत्वं स्वरूपमदेव नास्तीति वुद्धः को विषय इत्याह । तत इति ॥ ४०६ रघु० ०८ । पिण्डे उपसर्पणस्य पिण्डाचापसर्पणस्य चाभावासामान्यस्य किं पिण्डोपलचितदेशे सत्त्वासत्त्वे नोपपद्येते किंवा पिण्ड एव । श्रद्ये पिण्डमधिकृत्येति । पिण्डस्योपमर्पणादिभिरेव तदुपपत्तेरिति भावः । द्वितीये तु सत्येव पिण्डे तपासाव प्रागेव निरस्तं । तेन शिष्यमाणममति पिण्डे तत्रासत्वमाशङ्कय निराकरोति । श्रथापीति । तस्य सामान्यस्य । तदमत्त्वात् पिण्डासत्वात् । मत्त्वासत्त्वे यदि वर्त्तमानत्वावर्त्तमानवे तत्राह । स्वरूपेति । द्वितीयानपेचत्वात् पिण्डाद्याधारानपेक्षत्वात् । न वा मामान्यस्य कदाचिदप्यसत्त्वं नित्यत्वात् । सम्बद्धवेति । यद्यपि मम्बन्धोऽत्र समवायः म च नित्य एव, तथापि तद्विशेषितः समदायो नास्तौत्यसम्बन्धित्वमङ्गीकृतम् ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy