SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभङ्गवादः । ४०५ कथमिति । तत्रेत्यनेनाकाशादिविवक्षित: पिण्डो वा। श्राद्ये पापाद्यापादकयोर्वैय्यधिकरण्यम्, न चाकागादिना सहासम्बन्धे पिण्डमम्बन्धो विरुद्ध इति भावः । पिण्डेनासम्बन्धस्तत्सम्बन्धविरोधौ, म च जातिपिण्डसम्बन्धस्य नित्यत्वादेव नास्तोत्याह । येन चेति ॥ रघु • टौ। विरुद्धधर्ममसर्गावयविवदिहापि निरसनीय इत्याह । नापौत्यादि । ननु गोत्वादौ जायमाने गवि गोत्वस्य मम्बन्धो न रज्चादिवद्देशान्तरादागमनात् नि:क्रियत्वात् । न करोषादिवत्तत्रैव मत्त्वात् प्रागप्यपलम्भप्रसङ्गात् । न पिण्डरूपवत्तदोत्यादात् प्राचीनपिण्डानामगोत्वप्रसङ्गात्। न च प्रकारान्तरं मम्बन्धोपपाद कमस्तोत्याशङ्कते। जायमानेति । तत्रामतोपि स्वभावनियमादेव सम्बन्धो नानुपपन्नः मतोपि च व्यञ्चकव्यनिविरहादेवानुपलम्भ इत्याशयवानाह। कथं पुनरिति । तत्र पूर्व गोत्वसत्त्वे तत्रत्यत्वाविशेषाट्रव्यान्तरेपि गोत्वसम्बन्धे तत्रापि गरिति प्रत्ययापत्तिरित्यक्षरतात्पर्याभ्यामाशङ्कते। तत्र सत्त्व दति। गोत्वस्य यथाकथञ्चित्सम्बन्धो न गौरितिप्रत्ययनियामक: किं तु ममवायः म चेदुत्तरकालं द्रव्यान्तरे गोत्वम्य स्यात्कल्प्येतापि पूर्व तत्र तदभावोपपत्तये गोत्वस्यामत्त्वमित्याशयवाना । न चैतदिति । अथ तत्रत्यत्वाविशेषेपि कचिदेव गोत्वममवायो नान्यत्रेति कुतो नियम इति चेत् खभावनियमादिति ग्रहाण । श्रथ पिण्ड एवोत्पत्तिकाले मतो गोत्वस्योत्तरकाले सम्बन्धी विनोपमर्पणादिकं For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy