SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेक सटौके वानुगतधर्मोपग्रहमन्तरेणानन्तासु व्यकिषु व्युत्पत्तिः सम्भवति। न च तामन्तरेणापूर्वव्यक्तौ पदविशेषवाच्यतानिबन्धनो · व्यवहारः । स्वर्गादिषु चानुगतस्वर्गत्वादिनिबन्धना व्युत्पत्तिरिति ॥ नन्वतावतापि विकल्पः सियतु, अनुभवस्तु कथम् । सवस्तुकविकल्पसिद्धेरेव। कथं तस्य सवस्तुकतेति चेत्। शब्दवासनादिकारणान्तरविध्वंमादिति तूष्णीम्भव । शङ्क० टौ । भामतां मविकल्पकेपि जातिरनुभवश्वेज्जाति न विषयों करोति तदा न मा प्रामाणिकीत्यर्थः । कथमिति । जातिगोचरः सेत्स्थतीत्यर्थः। मवस्तु केति । विकल्प विषयस्य बाधकमन्तरेणानुभवविषयत्वधौव्यादित्यर्थः। अद्ययावद्विकल्प एव मवस्तुको न मिद्धोऽस्तोत्याह । कथमिति । शब्दति । शब्दवासनादिकारणनिषेधे गौरयमित्यादिविकल्पानामर्थमामर्थ्यसमुत्थत्वमावश्यकम् । तथा च गोत्वादिकमपि वस्तुभूतमेवेत्यर्थः ॥ भगौ० टी० । एतदेव स्पष्टयति । नन्विति । निर्विकन्यकादेव वस्तुमिद्धिरित्यनुगतधर्मविषयकमविकल्पक सिद्धावपि तम्यालोकविषयतया न ततोऽर्थसिद्धिरित्यर्थः । सवस्तु केति । मविकल्पकस्यालोकविषयकत्वानुपपत्तौ पारिशेष्येण वस्तुविषयत्वमिद्धेरित्यर्थः । एतदेव स्पष्टयति । शब्देति ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy