________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
३६५
पादनं न शक्यमित्यर्थः । गत्यन्तराभावादिति । अन्यापोहादेनिरस्तत्वादित्यर्थः ॥
भगौ• टौ० । जात्यादा वित्यादिपदादनेकवृत्त्येकसंयोगावयव्यादिपरिग्रहः । व्यवहारस्येति । व्यवहारानन्यथामिद्धेरेव न बाधकमित्यर्थः । नापि बाधशङ्का तस्या एव विपक्षबाधकत्वात् अन्यथा तव खदर्शनव्याघात इत्याह । अन्यथेति । यदि विपक्षबाधकमभावेपि ङ्केत्यर्थः ॥
रघु० टौ। जात्यादावित्यादिपदादनेकवृत्तिसंयोगादिपरिग्रहः। बाधकं हि शङ्कितं निश्चितं वा । श्राद्ये व्यवहारस्येति । बाधक शङ्कितम् । स्वभाव हेतुरनुमापको हेतुः । गत्यन्तरेति । पथ कोयमगौरित्यादिपूर्वोक्ताव्यवहितग्रन्थेन अपोहादेरनुगतव्यवहागनुपपत्तेरुपदर्शितत्वादित्यर्थः ॥
न च बाधकमप्यस्ति । तद्धि स्वरूपतो वा स्यात् ज्ञानतो वा स्यात् । स्वरूपतोऽप्यनुपलम्भो वा विरुद्धधमाध्यासो वा।
शक टो० । ननु बलवहाधकं चेदस्ति तदा प्रकारान्तरेणाप्यनुगतव्यवहारः परं चिन्तयितुमर्हतौत्यत आह । न चेति । स्वरूपत इति । जात्यादिकमेवात्य बाध्यते जात्यादिज्ञानं वा बाध्यत इत्यर्थः ॥
For Private and Personal Use Only