SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके सटौके विवादेति । एतच्चान्त्यशब्दक्षणिकत्ववादिनामंशतः मिद्धमाधननिरासाय । शब्दादिरिति चालोकव्यावृत्त्या भागामिद्धिनिरामार्थम् । पक्षत्वे चादित्वस्यैकस्थाभावे ऽप्यननुगमो न दोषः । न चैवं पक्षभिन्ने मन्दिग्धानेकान्तिकम् । माध्याभाववत्त्वेन निश्चितेन हेतोः सत्त्वासत्त्वसन्देह एव तस्य दोषत्वात् । अन्यथाप्रसिद्धानुमाने पर्वतापर्वतधूमवतामेकधर्माभावेन तदापत्तेः (?)। घटस्य चणिकत्वासिद्धावपि प्रमाध्याङ्गकतया खमतेन दृष्टान्तत्वम् । यद्दा सत्त्वेनैव पक्षत्वं व्याप्तिग्राहकमानात् मत्त्वं चणिकत्वव्याप्यमिति बुद्धावपि सद्विशेष्यकक्षणिकत्वबुद्धेरनुमानफलत्वात्। सत्त्वेन घटस्य पक्षत्वे ऽपि रूपान्तरेण घटत्वेन दृष्टान्तत्वात् साध्यवत्तया निश्चितस्यैव तत्त्वात् पक्षान्यत्वे सतीत्यस्य वैयर्थात् अभेदानुमानाभावापाताच्च । न चैवं दृष्टान्तत्वेन तस्य माध्यवत्त्वात् सन्देहमिसाधयिषयोरभावान्न तद्धटितं पक्षत्वम् । सत्त्वावच्छेदेन सामान्यतः सन्दे हे घटस्थापि विषयत्वात् घटत्वेन साध्यसिद्धौ तेन रूपेण तयोरभावात् अत एव नांशतः सिद्धमाधनम् पक्षत्वावच्छेदकनानात्व एव तस्य दोषत्वात् तत्र बुद्धिदयस्योद्देश्यत्वेनै कस्या सिद्धेः । अत्र च घटः क्षणिक इति बुद्धावपि सन्मात्रं क्षणिकमित्युद्देश्यप्रतीतेरमिद्धेः । सत्त्वेन घटभिन्नस्यैव पक्षत्वमित्यप्याहुः। प्रतिबन्धेति। यद्यपि सत्त्वेन प्रतिबन्धमात्रस्य नामिद्धिः प्रमेयत्वादिना तत्मत्त्वात् चणिकत्वव्याप्तेश्च निरूपकाप्रसिद्धेर्नाभावः तथापि स्वोत्पत्त्यव्यवहितोत्तरक्षणवर्तिध्वंसप्रतियोगित्वरूपक्षणिकत्वप्रमिद्धेस्तनिरूपितमत्त्वनिष्ठव्याप्तौ विपक्षबाधकाभावान्मानाभाव इत्यर्थः॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy