SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । ३४५ शङ्क० टी० । परिहरति । न तयोरिति । परोक्षत्वापरोचत्वयो विषयाघटितत्वादित्यर्थः । तदेवोपपाद यति । द्विविधो हौति । विषयावदो विषयनिबन्धनो यथा घटज्ञानपटज्ञानयोरूपाधिभेदः । जातिभेदः कारणभेदप्रयोज्यानुमितित्वमाक्षात्ववदित्यर्थः । तत्रेति । विषयकृते प्रतिभामभेदे विषयभेद एव तन्त्रम्, नतु जातिकते, तत्र कारणस्यैव तन्त्रत्वात् । यथा तत्रैव विषये माक्षाकारिजानमानुमानिकं च ज्ञानं, तथा तत्रैव परोक्षमपरोक्षं चेत्यर्थः। विषयभेदेपि। घटपटादिलक्षणविषयभेदे पौत्यर्थः । विषयाभेदेपौति । वझिरूपविषयाभेद पौन्द्रियाद परोक्ष शब्दलिङ्गाभ्यां च परोक्षं ज्ञानं स्यादित्यर्थः । कारणेति । कारणभेदपरतन्त्रो यदि कार्यभेदो न स्यात्तदा कार्यवेजात्यमाकस्मिक स्थादित्यर्थ: । जातिभेद इति । परोक्षत्त्वापरोक्षत्त्वं च जातिभेदो न तु विषयकृत उपाधिभेद इत्यत्र किं निचायकमित्यर्थः । अनुभव एवेति । अनुव्यवसाय एवेत्यर्थः । तदेव विशदयति । न हौति । सोऽग्निमानिति स्मरणाकारं दर्शयित्वा त्रयाणामपि जानानामनुव्यवमायाकारं दर्शयति ॥ भगौ• टी. । विषयावच्छेदो विषयघटित उपाधिभेदो यथा घटपटज्ञानयोरित्यर्थः । द्वितीयेन जातिभेदेनेत्यर्थः । श्रुतौति । यथा परोक्षविषयत्वे तुल्येपि पााब्दत्वानुमितित्वस्मृतित्वरूपज्ञानगतज्ञानजातिभेदः कारणभेदादेव बौद्धानां तथायमपीत्यर्थः। यथा चेति । यदीदं वैरूप्यं विषयभेदमात्रप्रयोज्यं स्यात्तदा 44 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy