________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगामड़वाद।
ननु नियम एव। तथाहि यन्न यत्समवेतधर्मबोधनं न तत् तत्स्वरूपबोधनं, यथा गोविकल्पशब्दौ तुरगे। तथा च तैा गयपि नोलत्वाद्यपेक्षति व्यापकानुपलब्धिः। धर्मिबोधेपि हि धर्माणां कस्यचिद्दोधः कस्यचिदबोधश्चेत्युपकारभेदान्नियमः स्यात, उपकारभेदश्च शक्तिभेदानवेत, न चैवं प्रकृते, अनवस्थाप्रसङ्गात् । ततः(२) शक्तरभेदादपकाराभेदे सपिाधिसहित बोधोऽबोधो वेति यो गतिरिति प्रतिबन्धसिद्धिः । दुष्प्रयुक्तमेतत् । उपाधितहतां भेदे प्रतिनियतसामग्रौबोध्यत्वादेव तदयोगपद्ये बोधाबोधोपपत्तेः। प्रतिनियतसामग्रोबोध्यत्वस्यापि स्वभाववैचियनिबन्धनत्वात्, तस्यापि स्वकारणाधीनत्वात्, तस्याप्यन्वयव्यतिरेकसिद्धत्वात्, तस्यापि कार्यान्नेयत्वादिति ।
शङ्क० टी० । ननु यद्यत्ममवेतं धर्म नोपदर्शयतीति नियम एव । तथा चायं गौरिति विकल्पः शब्दो वा गोगतं नौलादि नोपदर्शयत्यतो गामपि नोपदर्शयति । तत्समवेतधर्मविषयतया व्याप्या तद्विषयता च गो विकल्पशब्दाभ्यां निवर्तमाना तद्विषयता. मादाय निवर्तत इत्यर्थः । व्याप्तिमेव द्रढयति । धर्मिबोधेति ।
(१) दबोधइत्य० इति १ पु० पा० । (२) तत्र इति २ पु० पा० ।
For Private and Personal Use Only