SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । २६७ रघु० टौ ० । प्रागित्यादि । प्रागभावस्य जन्यत्वे माध्ये यद्यपि प्रत्यक्षण न बाधः तस्याजन्यत्वाग्राहकत्वात् तथापि प्रत्यक्षतः सिद्धस्य प्रागभावस्य प्रागभावान्तरकल्पनाया मनवस्थानादजन्यत्त्वसिड्या प्रत्यक्षबाधो ऽभिहितः ध्वंमस्याजन्यत्वे माध्ये तज्जन्यत्वग्राहकप्रत्यक्षबाधः प्रागभावस्य जन्यत्वे तत्पूर्व ध्वंसस्य च विनाशित्वे पश्चात्कार्यसत्वप्रसङ्गोध्रमप्रागभावानाधारकालस्य प्रतियोगिमत्वनियमादित्याह । प्रागिति । अनुभयेति । यथार्थोऽयथार्थश्चेत्यभयम् । भाववदिति । यथा भावस्य प्रतियोगिनो ध्वंसप्रागभावविरोधित्त्वं तथा ध्वसम्य प्रतियोगिप्रागभावयोः प्रागभावस्य च ध्वंमप्रतियोगिनोविरोधित्वमित्यर्थः । न चैवं ध्वंसप्रागभावपरम्परयोरपि भावविरोधित्वानीन्मज्जनमिति वाच्यम्। अनन्ततादृा कल्पनामपेक्ष्य लाघवेन तयोरेवानन्तत्वानादित्वयोः कन्यनाया न्याय्यत्वात् । कुतः पुनः स्थिरमितिः। प्रत्यभिज्ञानात् क्षणिकत्वानुपपत्तेश्च । लक्षणाभेदेन व्यभिचारिजातीयत्वात् प्रत्यभिज्ञान प्रमाणमिति चेन्न । अवान्तरलक्षणभेरेनाव्यभिचारनियमात्। किं तदिति चेत् ! विरुद्धधर्मासंसृष्टविषयत्वं सिद्धं च तदछ । एवम्भूतमपि कदाचिव्यभिच रेदिति चेन्न । विरुद्धधर्मसंसर्गानास्कन्दितस्यैकत्वप्रत्ययस्य व्यभिचारे सर्वकत्वोच्छेदप्रसङ्गात् तथा चानेकत्वमपि न स्यादिति भव निष्किञ्चनः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy