SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः। भावः । भवेदेवं यदि दुःखहानमपि मुख्यः पुरुषार्थो भवेन त्वेवं सुखेच्छया तत्र वृत्तेरत आह)। निसर्गप्रतिकूलस्वभावमिति । अतः स्वरसत एव तद्धानेच्छेत्यर्थः । ननु दुःखमपि सुखाभावान्नान्यदित्यत पाह। सर्वजनेति। सर्वजनप्रतीतिमाक्षिकं तदित्यर्थः । श्रात्मानमधिकृत्य प्रवर्तत इत्यध्यात्म शास्त्रम् । एकवाक्यतैकमत्यम् । तथा च सर्वतान्त्रिकमिद्धं तत्त्वज्ञानस्य मोक्षोपायत्वमित्युक्तम् । तथाप्यनपेक्षिताभिधानं माभूदत उक्रमनुमरन्तश्चेति । मोक्षोपायमनुसन्दधाना इत्यर्थः । अनुसरणं प्रति हेतुरविद्वांस इति । अहिकण्टकादिदुःखहानोपायविद्वत्तायामप्यात्यन्तिकदुःखहानोपाये न वैदुष्यमिति भावः । श्राकर्णयन्तौति श्रौतं ज्ञानमभिप्रेति। तच्चात्मा वा अरे श्रोतव्य इत्याा पनिषदां श्रवणात् । एवकारेण लभ्यमप्यन्ययोगव्यवच्छेद्यं काशीमरणादेः स्वातन्त्ररण मोक्षोपायवशङ्का निराकत पुनराह । नान्यदिति(२) । यद्दा उपायमेव तत्त्वज्ञानमिति विशेषणमङ्गत एवायमेवकारः तत्त्वज्ञानार्थिप्रवृति(२ वैफल्यशङ्कानिरासाय । ननु भवतु तत्त्वज्ञानं मोक्षहेतुस्तथाप्यात्मतत्त्वं किमिति विवियत इत्यत आह । श्रात्मैव तत्त्वतो ज्ञेय इति। ननु बौद्धा नैरात्म्यज्ञानं तत्त्वज्ञानमाहुस्तथा च कथमेकवाक्यतेत्यत आह । प्रतियोग्यनुयोगितयेति । तेषामपि प्रतियोगितया श्रात्मतत्त्वं ज्ञाने(४) स्फरतौति मतं यत इति भावः । यद्वा यथा देहेन्द्रियादिभ्य (१) तत्परतरत आह - पा० १ पु०।। (२) नान्यदिति पाठमनुसृत्य व्याख्यातम् । (३) तत्त्वज्ञानार्थे प्रत्ति - पा० १ पु० । (४) आत्मतत्वज्ञानं-पा० ३ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy