SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके मटीक निमित्तं महारजनमयोगः म यदि व्याप्यत्तिः स्यात् तदा समग्र एव पटे रकधीः स्यात् तथा भेर्याकाशसंयोगस्य शब्दासमवायिकारणस्य नभोवृत्तित्वे सर्वत्र शब्दोत्पत्तिः स्यात् यावति देश विभुकार्याणामसमवायिकारणं तावति कार्यावश्यम्भावादित्यर्थः । श्रावृतानातत्वादिबोधादवयव्यभावे परमाणममूहो घटस्तेषां परमाणनामतौन्द्रियत्वेऽपि तथोत्यादात् प्रत्यक्षत्वमिद्धिरिति बौद्धमिद्धान्तादाह । तथाहौति । न वेति । उभयदिगवच्छेदनानाकृत एवेत्यर्थः । यत् क्रमयोगपद्याभ्यामर्थक्रियासु नोपयुज्यते तदमद् यथा कूर्मरोम तथा चाक्षणिकं शशविषाणादौत्यत्रापि प्रमङ्गःविपर्यययोः माध्यावैशिष्ट्यमन्वये व्यायभावेऽपि व्यतिरेकेऽपि तदभावः ॥ रघु० टौः । षष्ठमपि प्रतिवन्दिमुखेनानभ्युपगमादेव निर मितुमाशते । नन्विति । इत्यपौत्यस्यार्थो भवद्भिरियते नास्ति चेतीत्यस्याग्रे विरोध इति पोषः । सर्वत्रेति । तत्तत्कार्योत्पत्तिनियामकानां महारजनभेर्यादिसंयोगानां मकलावयवदिग्देशाद्यवच्छेदेन वृत्तौ तत्तत्कार्याणामपि तथैवोत्पत्तिप्रसङ्गादित्यर्थः । परमाणवः ! चणिकपरमाणुपुञ्जरूपा वारिबीजादयः कार्यविशेषसमर्था जाता इति। न चेति । परदिगवच्छेदेनाप्यनावृतरूप इत्यर्थः । उभय था वेति । परदिगवच्छेदेनावृतरूपः पूर्वदिगवच्छेदेन चानावृतरूप इत्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy