SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ आत्मतत्त्वविवेके सटौके जायते यथास्माकं समर्थस्य कार्य भवतां च द्रव्यादेः परिमाणादि ध्रुवभावौ च भावस्य विनाश इत्यतोऽर्थाद्विरोधः सेत्स्यतौत्यत पाह। ध्रुबेति। नहौत्यादिकं व्याप्यवृत्त्यभिप्रायेण ॥ ननु समवधानं नाम सहकारियां धर्मः संयोगो भवद्भिरिष्यते स च तेभ्यो व्यतिरिक्तोऽव्याप्यत्तिश्चेत्यपि। तथा च स एव तदैव तत्रैवास्ति नास्ति चेति अनतिरेके स्थिरवादिनो व्यस्तान्यपि बौजवारिधरणिधामानि तान्येवेति तेभ्योऽपि कार्यात्पत्तिप्रसङ्गः। व्याप्यवृत्तित्वे च सर्वच रक्तादिविभ्रमः शन्दादिकार्यात्यत्तिप्रसङ्गश्च । तस्मादसंयुक्तभ्योऽन्य एव संयुक्तस्वभावाः परमाणवो जाता इत्येव ज्यायः । नैतदेवं क्षणिकपरमाणावष्यस्य विरोधस्य दुर्वारत्वात् । तथाहि पूर्वदिगवस्थितः परमाणुर्यथा परदिगवस्थितेन परमाणुना ऽपरदिगवच्छेदेनावृतरूप उत्पन्नः तथैव किं पूर्वदिगवच्छेदेनापि न वा उभयथा वा आद्ये उभयतोप्यनुपलब्धिप्रसङ्गः द्वितीये तु उभयतोप्युपलम्भापत्तिः तृतीये पुनः स एव दुरात्मा विरोधः स रव तेनैव तदैवाहतोऽनारतश्चेति ॥ शङ्क० टी० । एतावता प्रघट्टकेन सहकारिसमवधानासमवधानाधौने करणाकरणे इति यदकं तत्समाहितं तथैवेति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy