SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके सटीके. भावानां क्वचिन्निरवधौति नित्यभावानाम् । नन्वेवं यागाद्यपि स्वानवच्छिन्ने काले स्वर्गादि न जनयेदित्यत श्राह । सावधित्वेऽति । यागादीनामपि व्यापाररूपमपूर्वादि तम्य प्रकर्षश्च परिपाकस्तदधीनश्च स्वर्गादिफलसम्बन्ध इति नोदोष इत्यर्थः । तर्हि यागवौजाद्यपि स्वानवच्छिन्ने काले कार्यजनकं स्यादत श्राह । श्रपकर्षति (९) । तेषां न तादृशो व्यापार इत्यर्थः । ननु य एव महकारिकालः स एव बीजादेरपि काल इति कथं कार्याल जातनष्ट एव न करोतीत्यत आह । द्वितीयस्त्विति । किंच तथाप्येककालस्य एव भाव इत्यादित्वदभिधानमपि मां प्रत्यसम्बद्धमित्याह । सहकारीति ॥ भगौ० टी० । यदैककालस्य कालान्तरेणाजनकत्वमापाद्यते ਚ काल: स्वरूपयोग्यतावच्छिन्नः सहकारियोग्यतावच्छिन्नो वेत्याह । सेयमिति । श्रद्ये स्वरूप योग्यभावैकोपाधिविशिष्टकालवृत्तेर्भावस्य जनकत्वमापाद्यते तच्च नैयायिकैरभ्युपेयत इतौटापत्तिरित्याह । श्राद्य इति । खरूपयोग्यत्वं च चणिकस्य स्थिरस्य वेत्यत्र विवादे तावन्मात्रे सम्प्रतिपत्तिरेवेति भावः । नित्यानामपीति । श्रपिशब्दादनित्य स्थिराणां सर्वेषामेव वस्तूनां स्वावच्छिन्नकालसम्बन्धस्य वर्तमानत्वादित्यर्थः । न चैवं सर्वेषां नित्यतापत्तिरित्याह । तदेवेति । नन्वेवं स्वरूपसत एव जनकत्वा (१) व्यप्रकर्षेति - पा० १ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy