SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir १२५ प्येकतन्तुकपटे तन्तूनां पटस्य चांशुवृत्तित्वमेव स्यात् तथा च कथं न तत्र मूर्तद्वयसमानदेशताविरोध दूति चेत् न तच पट एव नोत्पद्यते किं तु संस्थानविशेषाधीनः पटव्यवहार इत्यभ्युपगमात् । यदा अंशुतन्तु संयोगस्तत्र पटाममवायिकारणं न च तचैवांशो पटवृत्तित्वमिति तथापि तन्तुना समानदेशत्वमेवेति वाच्यम् अन्यूनदेशयोरेव तथाभ्युपगमात् । श्रनिवृत्ताविति । पूर्वद्रव्यं यदि न निवर्तते तदा समवायिकारणान्तरानुप्रवेशोऽपि नास्तीति कथं दौर्घत्वोपलम्भ इत्यर्थः । ननु स्थूलप्रत्ययो दृश्यते संयोगिद्रव्यान्तरानुप्रवेशं विना कथं स्यादित्यत श्राह । तदुपचयेऽपीति । द्रव्यान्तर चेन्नोत्पद्यते तदा तत्र स्थौल्यप्रत्ययो धान्यादिराशाविव भ्रान्त इत्यर्थः । तर्हि य एव कृश श्रासीत् स एवेदान स्थूल इति प्रत्यभिज्ञा कथमत श्राह । श्रत एवेति । पदार्थचिन्ताचतुरैः वैशेषिकैः ॥ भगौ० टी० । ननु यदि कालभेदेनाविरोधात् करणाकरणयोरेकधर्मिसमावेशः तदा द्विहस्तत्वादिपरिमाणभेदोऽप्येकच कालभेदेन स्यादिति ततोप्याश्रयभेदो न स्यादित्याह । नन्विति । कालभेदस्येति । विरोधापादकस्येति शेषः । शरीरसमवायिकारणद्रव्यपरिमाणेनैव शरीरे परिमाणान्तरं जन्यत इति व्यवस्थिते मति बाधकमाह । तथाहीति । एकचैव शरीरे परिमाणान्तरोत्पत्तिः शरौरारम्भकावयवेभ्यो यदि द्रव्यान्तरोत्पत्तिमभ्युपेत्योच्यते तदापि For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy