SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धात्मतत्व विवेक सटीक भगौ० टी० । परमतमाश्रित्याह । यद्येनेति । व्यापकेति । तद्रूपत्वव्यापकं तेन रूपेणार्थक्रियाकारित्वं तस्यानुपलश्चिम्त द्विपरौतोपलब्धिरित्यर्थः । तद्रूपताया द्रव्यत्वव्याप्यबीजवृत्तिजातिरूपताया इत्यर्थः । तादृशजातेश्च कारणतानवच्छेदकत्वे कुर्वपत्वमपि तथा न स्यादित्याह । अन्यथेति ॥ रघु० टौ । येन रूपेणेति । रूपमिह परेषां जातिमात्रम्। सामग्रौति। यत्किञ्चित् कार्यमामग्रौप्रविष्टाः कुशलस्थादय इति यावत् । नोपयुज्यन्ते परमते अतिप्रमङ्गात् बीजादेरपि कुन्नरत्वादिप्रसङ्गात् ॥ तद्रूपत्वमेतस्य प्रत्यक्षसिहत्वादशक्यापहवमिति चेत् अस्तु तर्हि विपर्ययः यद्यद्रपं तत् तेन रूपेणार्थक्रियासूपयुज्यते यथास्वभावेन सामग्रौनिवेशिनो भावा बौजजातीयाश्चैते १) कुशूलस्थादय इति स्वभावहेतुः नद्रूपत्वमाचानुबन्धित्वाद् योग्यतायाः ॥ शङ्क० टी० । ननु कुशूलस्वस्थापि बीजजातीयत्वमनुभवसिद्धत्वादशक्यापहवमित्याह । तद्रूपत्वमिति । कुशूलस्यं बीज बोजत्वेनैवार्थक्रियाप्रयोजकं बोजत्वात् यन्नैवं तन्नैवं यथा कुञ्जर इति व्यतिरेको। त्वयापि कुर्वद्रूपत्वज्ञातेरङ्कुरप्रयोजकतायामेवं (१) बीजरूपायैते - पा २ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy