________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52]. आत्मख्यातिः प्रसंगादिति किमप्रकृतेन / यत्तु गुरुत्व एव मानाभावो वायुतेजसोस्तियंगूर्ध्वगमनवत्पाथःपृथिव्योरधोगमनस्यासतिप्रतिबन्धकेऽदृष्टवदात्मसंयोगादिनैवोपपत्तेः / पतनप्रकर्षस्त्ववयवाधिक्यात् , अवयविनि गुरुत्वापकर्षोपगमे परेणापि तथैव वाच्यत्वादिति केषांचित्समाधानम् , तन्न रमणीयम् , वार्कतूलादौ त्वक्सन्निकर्षविशेषेण गुरुत्वलघुत्वयोः प्रत्यक्षसिद्धत्वात् , अत एवाधोवच्छेदेन संयुक्तसमवायाद् गुरुत्वं प्रत्यक्षमिति वल्लभाचार्याः / ..... इदं तु ध्येयं, गुरुत्वलघुत्वे स्पर्शत्वव्याप्तौ जातिविशेषौ न तु गुरुत्वं गुणान्तरं लघुत्वं च तदभावो विनिगमकाभावात् , तारतम्यस्योभयत्रापि दर्शनात् / गुरुत्वस्य गुणत्वे च पतनहेतुतावच्छेदकं गुरुत्वत्वं वक्तव्यम् , उक्तजातिविशेषत्वे च तदेव हेतुतावच्छेदकमिति लाघवम्, अत. एव गुरुद्रव्यस्य भस्मीभावदशायामपकर्षदर्शनाद् गुरुस्पर्शस्य पाकजत्योपपत्तिरिति दिक् / . .. तस्मादत्यन्तभेदेऽवयविनो गुरुत्वविशेषादवनतिविशेषप्रसंग इति दूषणमनुद्भतमेव / तदेवं व्यतिरिक्तस्वसमवेतकार्याभ्युपगमे बहुदोषसद्भावादवयवव्युत्पत्तिकाले परमाणूनामेवैकत्वसंख्यासंयोगमहत्त्वापरत्वादिपर्यायैस्तद्विनाशकाले च तेषामेव बहुत्वसंख्याविभागाणुपरिणामपरत्वात्मकत्वेनोत्पत्तिः स्वीकर्तव्या। न च य एव कार्यद्रव्यारंभका परमाणवस्त एव तद्विनाशोत्तरकालं स्वरूपेण व्यवस्थिताः कार्यद्रव्यप्रागभावप्रध्वंसयोरेकत्वविरोधात् घटद्रव्यप्रागभावप्रध्वंसमृत्पिण्डकपालवत् / तुच्छरूपता तु तयोः सकलप्रमाणबाधिता। अपि च घटे ध्वस्ते कपालद्रव्योत्पत्तिदर्शनात्तत्र परेण घटध्वंसत्वेन हेतुता वाच्या, मया तु विलक्षणद्रव्ये विलक्षणसंयोगत्वेनेव विलक्षणद्रव्ये विलक्षणविभागत्वेनेति लाघवं तथा च परमाणोप्रिदेशिकविभागजन्यतानायाससिद्धव / तदिदमुक्तं सम्मतौ दव्वंतरसंजोगाहि, केइ दवियस्स बिंति उप्पायं / . उप्पायच्छा कुसला, विभागजायं ण इच्छंति // त्ति [3-38] परमाणुनाशोपपादनम् . ....... इत्थं च परमाणावपि संयुक्तत्वादिनोत्पादस्यासंयुक्तत्वादिना विनाशस्य विभक्तत्वादिनोत्पादस्य संयुक्तत्वादिना च ध्वंसस्य द्रव्यार्थतया ध्रौव्यानुविद्धस्य सत्त्वात् त्रैकालक्षण्यं [त्रैलक्षण्यं ? ] त्रैकाल्यानु विद्धत्वं चोपपद्यते / यत्तु प्राचां मते क्वचित्समवायिकारणनाशस्य क्वचिच्चासमवायिकारणनाशस्य नव्यमते च सर्वत्रासमवायिकारणनाशस्यैव द्रव्यनाशहेतुत्वान्न परमाणुनाशसंभव इति, तन्न, उत्तरपर्यायत्वावच्छिन्नोत्पादस्यैव पूर्वपर्यायत्वावच्छिन्नध्वंसत्वेन तदवच्छिन्ने पृथग्घेतुताया एवाकल्पनात् / 1. सन्म तितर्क ग्रन्थे / For Private and Personal Use Only