SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAAAAAORAKAR अतिमुक्तकः कुमारोऽथ, तदा श्रीविजयाङ्गजः । षड्वर्षः कोमलालापो, वर्तमानः स्वमन्दिरे ॥ १२०॥ लक्षपाकादिभिस्तैलैः, कृताभ्यङ्गथा(ग)ङ्गसौख्यदैः । सुकुमारकरैछेकै,-मर्दितश्चाङ्गमर्दकैः ॥१२१॥ चूर्णैः सुरभिभिः सूक्ष्म,-विहितोद्वर्त्तन: सुधीः । स्नापितो वारयोषाभिः, कवोष्णैर्निर्मलैजलैः ॥ १२२ ॥ गन्धकाषायिकावस्त्र,-निर्जलीकृतविग्रहः । सन्तानवृद्धनारीभिः, कृतकौतुकमङ्गलः ॥१२३ ॥ परिधाय महामूल्य,-वस्त्ररत्नानि सादरम् । समस्तावयवेषूच्चै,-रामुक्ताशेषभूषणः ॥ १२४॥ निजगेहाद्विनिर्गत्य, क्रीडितुं सोऽतिमुक्तकः । प्रधानस्वपरीवारो,-राजमार्गमवातरत् ॥१२५ ॥ पञ्चभिः कुलकम् ॥ अनेकामात्यसामन्त, चालकैः कलिलोलुपैः । स्वसमानवयोऽवस्थै,-विमानैरितस्ततः चलच्चूलालतारम्यै,-र्गाढसंयमितांशुकैः । दृढसंहननैर्द:, रुल्ललद्भिर्मगैरिव ॥ १२७॥ कन्दुकैर्जात्यगाङ्गेय,-निर्मितैरतिवर्तुलैः । सुरत्नखचितैर्दीप्त, लोचनप्रमदप्रदैः ॥१२८॥ राजमार्गेऽतिविस्तीर्णे, स रेमे विजयाङ्गजा। जयन्त इव गीर्वाण,-कुमारैमुदितो दिवि ।। १२९ ॥ चतुर्भिश्च कुलकम् ॥ सुचिरक्रीडयाऽऽक्रान्तः, स विश्राम्यस्ततः क्षणम् । दिशोऽवलोकयन् याव,-त्तस्थौ स्वेदजलाविलः ॥१३० ॥ उच्चनीचकुलेपूच्चैः, पर्यटन्तं महामुनिम् । ददर्श गौतमं ताव,-दतिमुक्तकुमारकः ॥१३१ ॥ पप्रच्छ विस्मयोत्फुल्ल, नेत्रस्तं सोऽतिमुक्तकः । के यूयं हेतुना केन, भ्रमत्थं गृहे गृहे ॥ १३२॥ देवानां प्रिय ! कल्याणि,-निर्ग्रन्थाः श्रमणा वयम् । भिक्षार्थ पर्यटामोजातिमुक्तं प्राह गौतमः ॥१३३ ॥ ॐॐॐॐॐ For Private And Personal Use Only
SR No.020078
Book TitleAtimuktakmuni Charitram
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJinduttasuri Gyanbhandar
Publication Year1945
Total Pages27
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy