SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 CR %- NCREC% विविधेषु समारुह्य, वाहनेष्वथ नागराः । अनुजग्मुर्महीनाथं, बन्दितुं जिननायकम् ॥७३॥ मतिविनिर्जितचित्रशिखण्डिजाः, प्रबरवेषभृतो नृपमन्त्रिणः। शिरसि दत्तशुभातपवारणाः, प्रययुरग्यसुखासनसंस्थिताः ॥ ७४॥ बलात्तुरङ्गमारूढा,-स्तरुणाः श्रावकाङ्गजाः। रेवन्तमनुकुवन्तः, प्रचेलुश्चलकुण्डलाः ॥७५॥ शीघ्रगेषु करभेष्वधिरुया,-लकृतेषु बहुशो बहुमानात् । तीर्थनाथमभिवन्दितुमुच्चैः, केचनापि ययुरुच्वसिताङ्गाः ॥ ७६॥ केचित्त्यक्तगृहारम्भाः, कृतस्नानाः सितांशुकाः। श्रावकाः पादचारेण, चेलुः पुष्पादिपाणयः॥ ७७ ॥ आच्छादनोपेतसुखासनान्त:-स्थिता नृपान्तःपुरिकाश्च काश्चित । उत्पत्तिपर्यङ्कगताऽमरीणां, लीलां वहन्त्यः प्रययुर्वनाय ॥ ७८ ॥ याप्ययानसमारूढा, धनिनां काश्चनाङ्गनाः । विद्याधर्य इव व्योम,-यानस्थावरमीयिरे ॥ ७९ ॥ पुरकुरङ्गादृशः पतिभिः समं, समभिरुह्य स्थानरुणांशुकाः। कनकतोदनकेन तुरङ्गमा,-नुपवनं प्रति तैः समचालयन् ॥८ ॥ किमप्सरस ईदृशानुगमरूपसम्पभृतः, किमङ्ग! पुरदेवताः प्रकटितस्वरूपा इमाः । अमूल(ल)वणिमार्णवः (वा.) किम(मु)सुराधिपत्यङ्गना,-स्तदेति हृदि काश्चन प्रकृतसंशयाः प्राणिनाम् ॥८१ ॥ 8C- % % A OSORRORSCORE 4 % For Private And Personal Use Only
SR No.020078
Book TitleAtimuktakmuni Charitram
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJinduttasuri Gyanbhandar
Publication Year1945
Total Pages27
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy