SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान अट्ठाइ सर्वैरपि सा प्रशंसिता, अतः सर्वदानानामभयदानं श्रेष्टमिति ज्ञापितं, ततः सुश्रावकेणात्र पर्वणि खंडनपेषणवस्त्र-5 क्षालनाद्यारंभो विवर्जनीयः, तैलिकलोहकारभ्राष्ट्रकर्मकारकादिषु वाचा धनव्ययेन चारंभो निवारणीयः, स्वशक्त्या ॥४॥ पदिमोक्षश्च कार्यः, ग्रामनगरमध्येऽमारीघोषणा कारयितव्या, येन केनापि प्रकारेण जीवरक्षा कार्येति ॥ द्वितीयाश्रवपरित्यागे मृषावचनमत्र पर्वणि न वक्तव्यं, गालिप्रदानादिकठिनवाणी न वाच्या, सर्वथा वाक्शुद्धिः कार्या. तृतीयाश्रवपरित्यागे परधनगृहणं विवर्जनीयं, द्रव्यस्य हि जंतूनां बाह्यप्राणरूपत्वात्, तदपहारस्य च मरणरूपकष्टहेतुत्वात् , चतुर्थाश्रवपरित्यागेऽत्र पर्वणि ब्रह्मचर्य पालनीयं, स्त्रीसंगो विवर्जनीय इत्यर्थः, परस्त्रीसेवनं तु लोकद्वयविरुद्धत्वात् सुश्रावकेणावश्यमेव वय, पंचमाश्रवपरित्यागे धनधान्यादिनवविधपरिग्रहे परिमाणं कार्य, परिग्र हतृष्णाऽपरिमिता न धार्या, इच्छापरिमाणं विधेयमित्यर्थः. तथा पुनरस्मिन् पर्वणि कषायरोधः कर्तव्यः, कषायाश्चॐ त्वारः क्रोधमानमायालोभाख्यास्तेषां परित्यागो विधेयः, क्रोधोदये हि कलहोत्पत्तिश्चिरंतनप्रीतिनाशश्च, मानोदये विनयनाशस्तश च सध्ध्यानवतामपि मुनीनां केवलावाप्ती अंतरायः स्यात्, राजर्षिर्वाहुबलियत्. एवं मायोदये लोभोदयेऽपि च बहवो दोषा उत्पद्यते, अतश्चत्वारोऽपि कषायास्याज्याः, उक्तं च-कोहो पिइं पणासेइ । माणो विणयनासणो ॥ माया मित्ताणि नासेइ । लोहो सव्वविणासणो ॥१॥ तस्मात् शुभ आचारो येषां ते शुभाचाराजस्तैः श्रावकैराश्रवकषायरोधः कर्तव्य इत्युक्तं, अथ पुनरत्र पर्वणि यत्कर्तव्यं तदेव श्रावकविशेषणद्वारेणाह-कीदृशैः श्रावकैः? सामायिकजिनपूजातपांसि तेषां विधानं करणं, तदादीनि तत्प्रभृतीनि कृत्यानि कार्याणि तेषु तत्परैरित्यर्थः. गावश्यमेव पर्वणि प्रयाचा व्यस्य हि जमदानादिकटिना For Private and Personal Use Only
SR No.020076
Book TitleAsthanhika Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyanak
PublisherHiralal Hansraj
Publication Year1942
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy