SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठाइ व्याख्यान 24555回回回5回 5回 5回1回 4回5回55045 तेषामुपर्थेकैकं जिनभवनमस्तीति द्वापंचाशजिनभवनानि संति, तेषु च जिनचंत्येषु प्रत्येकं चतुर्विंशत्यधिकशत जिनबिंबानि संति, सर्वेषां मिलनेऽष्टचत्वारिंशदधिकचतुःषष्टिशतानि जिनयिबानि भवंति (६४४८) तानि च सर्वाण्यपि चैत्यानि चतुर्दाराणि शाश्वतानि प्रवरतोरणादिभिरलंकृतानि अतिसुंदराणि सति, तत्र देवेंद्रा म बहुदेवदेवीपरिवृताः प्रवर्द्धमानभावेनाष्टाहिकीमहोत्सवं कुर्वति, जलचंदनपुष्पधूपायष्टद्रव्यैर्जिनबिंबानि पूजयंति, जिनगुणान् गायंति, नाटकं च विदधति, इत्थमष्टदिवसावधि महोत्सवं समाप्य पुनः स्वस्थानं गच्छति. एवं श्रावकैरपि श्रीमत्तीर्थकरप्रकाशितेऽस्मिन् पर्वणि समागते धर्मणि यत्नो विधेयः, तथा चास्मिन् पर्वणि श्रावकाणां कृत्यान्याह-आश्वकषायरोधः। कर्तव्यः श्रावकैः शुभाचारैः॥ सामायिकजिनपूजा-तपोविधानादिकृत्यपरैः॥१॥ सत्राश्रवाः पंच ते चामी-प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहास्तेषां रोधो निरोधः, अर्थात्तत्यागः कर्त्तव्यः, एतावता प्रथम दींद्रियादयो येऽत्र सजीवास्तेषां विराधना श्रावकैवाः , सर्वदानेषु अभयदानमेव श्रेष्ठं, यदुक्तं सूत्रन कृदंगे-'अभयप्पहाणमिति' अन्यत्राप्युक्तं च-दीयते म्रियमाणस्य । कोटिजीवितमेव च ॥ धनकोटीं न गृह्णीयात् । सर्वो जीवितमिछति ॥१॥ अपि च-यो दद्यात्कांचनं मेकं । कत्लां चापि वसुंधरां ॥ एकस्य जीवितं दद्या-न्न हि तुल्यमहिंसया ॥२॥ अतोऽभयदानख्यापनार्थ कथानकमुच्यते, तथाहि___वसंतपुरेऽरिदमनो राजा, तस्य पंच राज्यस्तासु चैका दुर्भगा, चतस्रोऽत्यंतवल्लभाः, एकदा चतुर्वधूसमेतो राजा निजप्रासादगवाक्षस्थो नानाविधक्रीडाविलासं कुर्वस्तिष्टति, तस्मिन्नवसरे एकश्चौरो राजमार्गेण नीयमानो राज्ञा सप 905030050hGitH5090550 For Private and Personal Use Only
SR No.020076
Book TitleAsthanhika Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyanak
PublisherHiralal Hansraj
Publication Year1942
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy